SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । चतुर्दशीहानी पूर्णिमायां पौपधादिकार्यकरणाधिकारः ॥६८॥ सरेः हिश्रीऋषभदेवशिष्यत्वं न व्यभिचरति शिंशपत्वे वृद्धत्ववत् । तथा तपागच्छीयग्रन्थेऽपि सूरिप्रतिष्ठा एवं स्थाने स्थाने दृश्यते, यदक्तं-तपाश्रीसोमसुन्दरसूरि-तच्छिप्यमहोपाध्याय-श्रीचारित्रगणितद्विनेय-पं० सोमधर्मगणिविरचितायां उपदेशसप्ततिकायां द्वितीयाधिकारे अष्टमोपदेशे (३८ पत्रे), तथाहि-"निर्मापितं पासिलसंज्ञकेन, श्रद्धावता श्राद्धवरेण चैत्यम् । आरासणे श्रीगुरुदेवसूरि-प्रतिष्ठितं तीर्थमभूत् क्रमेण ॥ १॥"पुनः अत्रैव सम्बन्धप्रान्ते ( ४० पत्रे)___ "गोगाकस्य सुतेन मन्दिरमिदं श्रीनेमिनाथप्रभो-स्तुङ्गं पासिलसंज्ञितेन सुधिया श्रद्धावता मश्रिणा शिष्यैः श्रीमुनिचन्द्रसूरिसुगुरोर्निर्ग्रन्थचूडामणे- दीन्द्रैः प्रभुदेवसूरिगुरुभिर्नेमेः प्रतिष्ठा कृता ॥१॥" एतदक्षरानुसारेण मूरिः एव प्रतिष्ठाकृत संभाव्यते, पुनः यथार्थता यथार्थवेदिगम्या इति ॥ २६ ॥ ॥इति सूरेः प्रतिष्ठाधिकारः॥२६॥ ननु-आत्मनां गच्छे चतुर्दशीहानी चतुर्दशीकृत्यं पौषधग्रहणपाक्षिकातिचारालोचनादिकं पूर्णिमायां क्रियते, अन्यगच्छेषु तु केचित् त्रयोदश्यां विधीयत तत्क। उच्यते-पूर्णिमायाः पर्वतिथित्वेन मूलपक्षे सिद्धान्ते प्रत्याख्यातत्वात् । पूर्णिमायां एव तत्सङ्गति अङ्गति ?, अपि च पर्वभूतां पूर्णिमां अमावास्यां वा विहाय अपर्वभूतायां त्रयोदश्यां कथं पाक्षिककृत्यं क्रियेत?, को नाम विहंमन्यो निकटवर्तिनीबृहत्प्रवाहां गङ्गां तीर्थभूतां विहाय अतीर्थभूते कूपे स्नानं समाचरेत् १, पुनः त्रयोदश्यां तिच्या तत्करणे तु आगमाचरणयोः द्वयोः मध्ये एकस्याऽपि पक्षस्य अनाराधितत्वं स्यात् । यदुक्तं श्रीजिनप्रभसूरिभिः विधिप्रपायां, तथाहि २७ |॥ ८॥ 136
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy