________________
सामाचारीशत
कम् !
॥ ६७ ॥
परं सा बृहत्वरतरशाखायां पौषधमध्ये विना उपधानं प्रवृत्तिः नास्ति, तथा यद्यपि "जो पुण आहारपोसही देसओ सो तत्थेव पोसहसालार घरे वा साहुइ गंतुं पुष्णे पच्चकखाणे तीरिए अ समासमणदुगेण मुहपोसि पडिलेहिअ समासमणेण बंदिअ भट्ट - इच्छाकारेण संदिरसह पारावेह पोरिसिं पुरिमनुं वा चउविहाहारं एगासणं निविइअं आयंबिलं वा कथं जा कावि वेलातीए पारावेमि”, इत्यादि श्रीपञ्चाशचूर्णी पाषधे भोजनं उक्तं, परं अस्माकं बृहत्खरतरगच्छीयानां तस्वार्थभाष्यवृत्ति - श्रीसमवायाङ्ग सूत्रवृत्ति - प्रमुखग्रन्धानुसारेण वृद्धपरम्परया च न पौषधमध्ये भोजनं श्रावकाणां अभ्यनुज्ञातं, | पश्चात् तत्त्वं तत्त्वविदो विदन्तीति न अस्माकं कोऽपि पक्षपातः, यथा भगवता दृष्टं उपदिष्टं च तथा प्रमाणम् ॥ २५ ॥ ॥ इति पौषधमध्ये उपधानं विना भोजननिषेधाधिकारः || २५ ||
ननु - जिनप्रतिमानां प्रतिष्ठां स्वर्णशलाकया नेत्रोन्मीलनरूपां सूरिः एवं करोति किं वा सामान्यसाधुरपि ! उच्यते - सूरिः एव, यतः श्रीजिनदत्तसूरिभिः उत्सूत्रपदोद्धट्टन कुलके सूरिं विना प्रतिष्ठाकरणे उत्सूत्रप्रतिपादनात् तथाहि
" सूरिं विष्णा पहूं, कुणइ अ उस्मुत्तमाईअं” इति १० काव्ये, अपि च सर्वगच्छेषु सांप्रतं सूरय एव प्रतिष्ठां कुर्वाणाः बहुशो दृश्यन्ते, नहि प्रत्यक्षप्रमाणसिद्धे वस्तुनि अनुमानादिप्रमाणापेक्षा भवति, अपि च श्रीउमास्वातिवाचकेनाऽपि स्वप्रतिष्ठा कल्पे सूरेः एव नामग्रहणं अकारि, तथाहि
" रूप्यकचोलकस्थेन, शुचिना मधुसर्पिषा । नयनोन्मीलनं कुर्यात्, सूरिः स्वर्णशलाकया ॥ १ ॥” इति ॥ एवमेव श्रीहरिभद्रसूरयोऽपि प्रोचुः, तथाहि "अच्छीनिलाडसंधिसु, हिअए घिसिरियाई पवन्ने । श्यणस्स वडिआए, गहिअमहू
I
134
जिनप्रतिमाप्रतिष्ठा
पने सूरेरे
वाsघि
कारः
२६
॥ ६७ ॥