________________
यतया प्रोक्तानि, परं यद्यपि तत्र उपधानतपसि पोषधवतं न उक्तं, तथापि समस्तगच्छीयगीतार्थसम्मततया सर्वेष अपि धर्मगच्छेषु नियतं यथा स्वस्वोपधानादिप्रमाणतया तत्र स्वस्वतपोयोगविधिप्रकरणेषु गीताः निबद्धं दृश्यते. तैः। कार्यमाणंच उपासकैः उपलभ्यते । तत्र श्रीअभयदेवसूरिशिष्यपरमानन्दकृतयोगविधिग्रन्थे चतुश्चत्वारिंशदधिकद्वादश-I शतवर्षे १२४४ लिखिते यथा “पौषधग्रहणपुरस्सरं उपधानतपो विधेयमिति अत उपधानविधिः उच्यते इति १५ पुनः श्रीचन्द्रगच्छीय-श्रीअजितदेवसूरिकृतयोगविधौ त्रिसप्तत्यधिकद्वादशशतवर्षे १२७३ कृते यथा "श्रावक श्राविकाणां तु । एकस्मिन् उपधाने अव्यूढेऽपि गुर्वाज्ञया अनुज्ञानन्दी विधीयमाना दृश्यते, परं एतैः अहोरात्रपौषधदिनानि पश्चादपि शीघ्र सविशेष पूरणीयानि २" पुनरपि-तपागच्छीय-श्रीरत्नशेखरसूरिकृते श्रीआचारप्रदीपे (१९ पत्रे), यथा__ पौषधग्रहणक्रिया तु यद्यपि श्रीमहानिशीथे साक्षात् नोक्ता, तथाऽपि यथा साधोः योगेषु अतिशायि क्रियावत्त्वं सर्वप्रतीत
तथा श्राद्धानां अपि उपधानेषु विलोक्यते ३" पुनरपि श्रीखरतरगच्छाधिपति-श्रीजिनपतिसूरिकृतद्वादशकुलकवृत्तिःDiवडगच्छीयजीर्णसामाचारी-श्रीजिनप्रभसूरिकृतविधिप्रैपा-श्रीमान्देवसूरिकृतकुलकप्रमुखग्रन्था विलोकनीयाः॥
ननु-श्रीविधिप्रपायां "मुहपत्ति पडिलेहिअ वैदिअ भणइ भगवन् ! भातपाणी पारावेह, उवहाणवाही भणइ-नवकारसहिचउबिहाहार, इअरो भणइ-पोरिसिं पुरिमझु वा तिविहाहारं चउबिहाहारं वा एगासणं निविइ आयंबिलं वा जा काइ वेलातीए भत्तपाणं पारावेमि ति", श्रीजिनप्रभसूरिभिः 'उवाणवाही भणइ इअरो भणई' इति भेदद्वयोक्त्या पौवधमध्ये उपधान विनाऽपि कथं भोजनं अनुज्ञातम्? उच्यते-तत्परमार्थ लघुखरतरगच्छीयाः श्रीजिनप्रभसूरय एवं जानन्ति,
EXCARRECR4:58
सामा०.१२