SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ तथाहि-"समणे भगवं महावीरे वासाणं सबीसइराए मासे वइकंते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पजोसवेई" व्याख्या-'समणे' इत्यादि-वर्षाणां-चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिराव-विंशतिदिवसाधिके मासे व्यतिक्रान्ते-प-15 चाशद्दिनेषु अतीतेषु इत्यर्थः, सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपदशुक्लपञ्चम्यां इत्यर्थः, वर्षासु आवासो वर्षावासः=15 वर्षावस्थानं, "पज्जोसवेइत्ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमपि आश्रयति, भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादौ अपि निवसतीति हृदयमिति, ततः पश्चाशता दिनैरेव पर्युषणा कर्तव्या इति सङ्गतिमङ्गति । न च वाच्यं श्रावणभाइपढ़योः एकतरवृद्धौ एकमासस्य अभिवधितस्य अगणनात् | वस्तुगत्या पञ्चाशदिनानि एव स्युः इति, यतो विशेपकल्पभाष्यचूर्णौ वर्धितमासस्य अपि गणना प्रमाणीकृताऽस्ति; तथाहि "अहिंगमासो पडिओ तो वीसइराचं गिहिनायं कजति, कि कारणं इत्य अहिंगमासो चेव गणिजति ? सवीसाए | समं सवीसतिराओ मासो भणति चेव ति", अपि च "समणे भगवं महाबीरे वासाणं सबीसइराए मासे वइकते वासावास पजोसवेइ ति" कल्पसिद्धान्तोक्तवचनप्रामाण्यात् , आषाढवृद्धौ अपि विंशतिरात्रिपर्युषणायां बोषितायामपि अधिकमासस्य गणनात् सविंशतिरात्रिमासे एवं पर्युपणा कर्तव्या इति समागतं, नाऽपि “वासावासं पज्जोसविआणं नो कप्पइ परं उपजोसवणाओ निग्गंथाण था निग्गंथीण वा गोलोमपमाणमित्तेऽपि केसे तं रयणि उवायणावित्तए" इति कल्पसूत्रे (६८ पत्रे) सामाचारीसूत्रम् अस्य वृत्तिः-तां रजनी भाद्रपदसितपञ्चमीरात्रिं नातिक्रमयेत्, पञ्चम्या रात्रे प्रागेव लोचं 123 -
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy