________________
रीशतकम् ।। ॥६ ॥
आपाढचातुर्मासात् ५० दिनैः
पर्युषणा| करणा
धिकारः २३
यते, तत्पक्षः काऽपि निषिद्धोऽस्ति ? उच्यते-श्रीजिनवल्लभसूरिभिः सखापट्टके बृहद्वत्तौ तत्पक्षस्य जिनवचनबाधाकारित्वेन उक्तत्वात् , तथाहि___वृद्धौ लोकदिशा नभस्य-नभसोः सत्यां श्रुतोक्तं दिनं, पञ्चाशं परिदृत्य ही शुचिभवात् पश्चाच्चतुर्मासकात् । तत्रा- शीतितमे कथं विदधते ? मूढा महं वार्षिक, कुग्राहाद्विगणय्य जैनवचसो बाधां मुनिव्य॑सकाः॥१॥ इति ॥".
ननु-कथं तत्पक्षो जिनवचनस्य बाधाकारी? इति । उच्यते--श्रूयतां, पूर्व श्रावणस्य भाद्रपदस्य च जैनसिद्धान्तापेक्षया वृद्धिरेव नाऽस्ति, पौषापाढयोः एव मासयोः जैनमते मूलपक्षे वृद्धिभवनात् , संप्रति लौकिकटिप्पणानुमत्या सकलमासवृद्धौ श्रावणभाद्रपदयोः अपि वृद्धिरस्ति, तत्र च तयोः वृद्धौ अपि पञ्चकदशकव्यवस्था आषाढचतुर्मासकात् पञ्चा-1 शता दिनरेव पर्युषणा कर्तव्या, यदुक्तं श्रीकल्पसूत्रे (५९ पत्रे), तथाहि-"ते णं कालेणं ते णं समए णं समणे भगवं महा-1 वीरे वासाणं सवीसराइए मासे विइक्वते वासावासं पजोसवेइ" इति ॥ १॥ विशेपकल्पभाष्यचूर्णी अपि एवमेवोक्तिः, तथाहि-"एत्थ उ पणयं० गाहा-आसाढचाउम्मासीए पडिकते पंचहिं पंचहिं दिवसेहिं गएहिं जत्थ जत्थ वासावासजोगं खेत्तं पष्टिपुन्नं तत्थ तत्थ पजोसबेअर्व, जाव सबीसइराओ मासो, इय सत्तरी कह भवइ ? सवीसइरायं मासं हिंडियाणं लद्धं खेतं, भदवयसुद्धपंचमीए पजोसवेत्ता, कत्तियपुण्णिमाए पडिक्कमेत्ता बिझ्यदिवसे निम्गया, जइ भद्दवयअमावसाए पजोसति, पंचसत्तरी भवइ, जइ भद्दवयवहुलदसमीए ठिआ तओ असीय भवइ, एवं जाव आसाढपुषिणमाए ठिआ | ताहे वीसुत्तरं सयं भवई" ॥२॥ एवमेव श्रीसमवायाङ्गसूत्रवृत्त्योः सप्ततिस्थानके (८१ पत्रे)॥
126
.
...