________________
सामाचारीशतकम् ।
अनेकोपवासप्रत्याख्याननिषेधा
॥५४॥
धिकारः
गाहित्तए तं० तिलोदगं वा तुसोदगं वा जवोदगं वा । वासावासं पजोसविअस्स अट्ठमभत्तियस्स भिक्खुस्स कम्पति, तो पाणगाई पडिगाहित्तए तं० आयामे वा सोवीरे वा सुद्धविअडे वा इत्यादि" श्रीदशाश्रुतस्कन्धाष्टमाध्ययनादिषु (कल्प- सूत्रे सामाचार्या ) चतुर्थषष्ठाष्टमादिप्रत्याख्यानस्य स्पष्टं नामश्रवणात् । कथङ्कारं नो उपलभः ?, सत्य, श्रूयतां श्रुती दत्त्वा, विचार्यतां च क्षणं चक्षुपी निमील्य । अत्र इदं रहस्य-एतानि चतुर्थ-षष्ठाष्टमादीनि प्रत्याख्यानकारापणक्षणे नामग्राह| न उच्चार्यते किन्तु केनाऽपि एकोपवासः कृतः तस्य उपवासस्य चतुर्थ इति संज्ञा १, एवं उपवासद्धयस्य षष्ट इति संज्ञा २,
उपवासत्रयस्य अष्टमं इति संज्ञा ३, यावत् षोडशोपवासानां चतुस्त्रिंशत्तम इति संज्ञा वर्तते, तथैव श्रीस्थानाङ्गवृत्तौ अपि त तृतीयस्थाने चतुर्थस्य अर्थ एकोपवासः, एवं षष्ठस्य अर्थ उपवासद्वर्य, अष्टमस्य अर्थ उपवासत्रयं इत्यादि व्याख्यात
मस्ति । तमा न ब्रूक्तिपात: (१ ) मउगादिसूत्राणि चतुर्दश व्यक्तानि, केवलं एक पूर्वदिने, द्वे उपवासदिने, ४ चतुर्थपारणकदिने भक्तं भोजनं परिहरति यत्र तपसि तत् चतुर्थ भक्तं, तदस्य अस्ति स चतुर्थभक्तिकः तस्य एवं अन्य-18
त्राऽपि, शब्दव्युत्पत्तिमानं एतत् प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानां एकाद्युपवासादिषु इति । अथ च श्रीआवश्यकसूत्रेऽपि उपवासपाठस्तु अयं (८५३ पत्रे) तथाहि-"सूरे उग्गए अन्भत्तई पञ्चक्खाइ" इत्यादि, परं न तु एवं यदुत 'सूरे उग्गए। चउत्थं पञ्चक्खाई' एवं छदुभत्तं अट्ठमभत्तं यावत् चउतीसभचं । अथ यदि पुनः प्रथमदिने एव षष्ठविधायिनः षष्ठसंज्ञा | स्यात् तदा षष्ठभक्तिकमुनेः प्रथमदिनेऽपि पूर्वोक्तानि तिल-तुष-जवोदकानि द्वितीयदिने कल्पनीयानि उपादेयानि स्युः। षष्ठभक्तिकत्वात् , परं न च चतुर्थप्रायोग्यपानीयानि, न च एवं प्रवृत्तिः कुत्राऽपि, एवं अष्टमभक्तिकस्याऽपि साधोः
8-56