SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रतिमावहनं, न च वाच्यं व्यवच्छेदे अभ्यासोऽपि न घटां आटीकते, यतो जिनकल्पव्यवच्छेदेऽपि श्रीआर्यमहागिरिणा जिनकल्पाभ्यासो विदधे-जिनकल्पतुलना कृता इत्यर्थः । पुनः एतदर्घसम्मतिं श्रीतिलकाचार्योऽपि स्वसामाचारी ग्रन्थे | प्रोचिवान् , तथाहि-(११ पत्रे ) "चतस्र एव च संप्रति प्रतिमाः श्रावकैः उह्यन्ते, शेषास्तु अष्टम्यादिषु सकलरात्रिकायोवरणाशक: नानादिला.", एवं सन्देहदोलावलीवृत्तौ अपि चालनापूर्वक अयमेव भावो लिखितः। तथाहि-ननुयदि प्रतिमाकरणं अन्तरेणापि प्रव्रज्यासम्यक्त्वं भवति, तदा किं तेन ? इत्यत आह__"जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा अमुहो कालो, दुरणुचरो संजमो एत्थ ॥ ४९॥" व्याख्या-यस्मात्कारणात् अशुभो-अशुभानुभावः कालो-दुःषमालक्षणो वर्तते, ततश्च दुरनुचरो दुःखासेव्यः संयमः संयतत्वं अत्र अशुभे काले, अतः प्रव्रजितुकामेन प्रतिमाभ्यासो विधेय इति भावः इति गाथार्थः। इति श्रीउपासकप्रतिदमाप्रकरणे दशमपञ्चाशके ॥ ६॥ ॥ इति श्रावकाणां एकादशप्रतिमावहन निषेधाधिकारः ॥१५॥ ननु-श्रीखरतरगच्छे तपादिगच्छवत् एकोपवासकर्तुः चतुर्थ, उपवासद्वयकर्तुः षष्ठः, तत्रयविधायिनः अष्टम, एवं यावत् षोडशोपवासकर्तुः चतुस्त्रिंशत्तमं कथं न कार्यते ? उच्यते-एतादृशप्रत्याख्यानस्य सिद्धान्तादिषु अनुपलम्भनात् , न चढ़ा वाच्यं "यासावासं पज्जोसविअस्स चउत्थभत्तिअस भिक्खुस्स कप्पंति, तओ पाणगाई पडिगाहित्तए, तं० उस्सेइमं १ वा, संसेइमं २ वा, चाउलोदगं ३ बा, तथा वासावासं पज्जोसविअस्स छडभत्तिअस्स भिक्खुस्स कप्पंति, तओ पाणगाई पडि 107
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy