________________
को दोषो गृहस्थानां एकादशप्रतिमाया अर्वाक् भिक्षावृत्तेः अष्टकप्रन्धादी पौरुपनीत्वेन निषिद्धत्वात् । अथ यतिन इव गृहस्था अपि पानकषडागारान् उच्चरिष्यन्ति तदा गृहस्था अपि यतिन इव उपवासादित्रिविधाहारप्रत्याख्यानमध्ये सौवीरावश्रावणादिपानीयानि अपि पास्यन्ति न च एषा सौवीरादिपानीयपानप्रवृत्तिः केषांचिदपि गच्छे दृश्यते । तदपाने च तदपवादागाराणां अपि समुच्चारणे स्पष्टं असंगतिरेव, नहि विशेष्याभावे विशेषणसंभवः, प्रत्युत पानकपडागारोच्चारणं अन्तरेणाऽपि सर्वगच्छेषु सच्चित्तपरिहारिणः श्राद्धाः सन्ध्यायां द्विविधत्रिविधाहार दिवस चरिमप्रत्याख्यान करणानन्तरं रात्रौ प्रासुकपानीयं पिवन्तो दृश्यन्ते । अपि च यथा दिवसचरिमप्रत्याख्याने अनुच्चारितेषु अपि पानकागारेषु रात्री गृहस्थाः शुद्धोदकं पिवन्ति, तथा अन्येषु अपि दैवसिकप्रत्याख्यानेषु पानकोच्चारं विनाऽपि पानीयं पिबन्तु, का विचारणा । उभयत्र समानत्वात्, किं च खर्जूर-तिल - तन्दुलधावना - ऽवश्रावणादीनि पानकानि, यथा रात्रौ गृहिणां अपेयानि तथा दिवा अपि अपेयानि एव तत्पानस्य धर्मे अभिमुखानां अप्रतिपत्तिहेतुत्वेन अप्रतिपन्नधर्माणां विपरिणामहेतुत्वेन वैधर्मिकाणां, जिनधर्मस्य निन्दाकृतौ प्रेरकत्वेन च महादोपत्वात् तेन पानकोच्चारणं अनर्थकं एव, आह पर:- न तु तद् अनर्थकं यतो यद्यपि फोगरङ्ग- दाडिमछल्यादिभिः प्रासुकीकृतं जलं त्रिविधाहारेण पातुं कल्पते एव तेषां कषायवृक्षफल छल्ली चूर्णत्वेन अनाहारकत्वात्, तथापि बिभीतकादिना प्रासुकीकृतं न कल्पते एव तस्य च स्वादिमाहारत्वादिति । तदर्थं पानकागारान उच्चरन्तु गृहस्थाः इति चेत् ? न, वस्तुगत्या विभीतकादेः अपि कटुफलत्वेन अनाहारकत्वात् न च वाच्यं पानभङ्गभिया
101