________________
सामा०९
ननु - केचिद्वदन्ति अपक्कदुग्धेन समं द्विदलभक्षणं अभक्ष्यदोषभाक्, तत् किम् ? उच्यते- न चैतत् सङ्गतिमङ्गति, क्वाऽपि तद्दोषस्यानुक्तत्वाद् इति, आह परः, उच्यते
ननु–भो ! “आमगोरससम्पृक्त- द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात् तानि विवर्जयेत् ॥ ७१ ॥”, इति श्रीहेमाचार्यकृतश्रीयोगशास्त्र ( १७१ पत्रे ) वचनप्रामाण्याद् आमगोरससम्पृक्तद्विदले सूक्ष्मजन्तूत्पत्तिसद्भावेन तद्वजनस्य सुतरां प्रोक्कत्वात् तद्दृष्टता एव समागता । न च वाच्यं गोरसशब्देन दधितके । परं दुग्धं न १, उच्यते-श्रीमाचाः गोरसशब्देनाऽभिधानचिन्तामणी ( १६७ पत्रे ) दधि १ दुग्ध २ घोल ३ रूपार्थत्रयस्य प्रोक्तत्वात्, तथाहि - "दुग्धं तु सोमजं, गोरसः क्षीरमूधस्थं, स्तन्यं पुंसवनं पयः ॥ ६८ ॥ १ तथा ( १६८ पत्रे ) "क्षीरजं दधि गोरसश्च २” पुनः ( १६९ पत्रे ) " दण्डाहते कालशेय- घोलारिष्टानि गोरसः रसायनं ३" इति । तत आमगोरसेन समं द्विदलभक्षणे स्पष्टं अभक्ष्यदोषः ?, सत्यं, यद्यपि आमगोरसशब्देन अपक्कदुग्धमपि समायातं, परं द्विदलदोषाधिकारे आमगोरसशब्दस्य प्रवृत्तिः अनुत्कालितदधितकयोः एव विषये तयोः द्वयोः एव ग्रन्थादौ व्याख्यातत्वाद्, यदुक्तं "श्रीतपागण सरोजर विश्रीदेवसुन्दरगणेन्द्रविनेयः, श्राद्धवर्गविहिताग्रहतः श्रीसोमसुन्दरगुरुः कुरुतेऽदः ॥ १ ॥” इति प्रन्धादौ सद्भावेन तपागच्छनायक श्री सोमसुन्दर सूरिभिः श्रीयोगशास्त्रबालावबोधे; तथाहि
"आमगोरससंपृक्तं द्विद ं पुष्पितौदनम् । दध्यहर्द्वितयातीतं क्वथितानं विवर्जयेत्” ॥ ७ ॥
97