SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्युन्मीयवृत्ती ॥१७५॥ यस्याक्षमाला प्रभोः । देवानन्द गुरुर्जयत्पयमितः पुरुषवृद्भारती शब्दानामनुशासनं तदुदितं न्यायेन सारस्वतम् ||२९|| शिष्यास्तस्याभूवन्नाद्यो रत्नप्रभाभिधः सूरिः । परमानन्दः सूरिः सूरिः कनकप्रभग्तदनु ||३०|| अतुल्यशल्यत्रयवत्रयस्तं चारित्रभूभर्तुकरे विरेजुः । विराधनागौरवदण्डशल्यत्रिकाणि भेत्तुं समकालमेव ॥ ३१ ॥ आद्यस्तु विद्यमानेषु श्रीदेवानन्दसूरिषु । जगाम सदां धाम, तद्बोधन चिकीरिव ॥ ३२ ॥ भूयादेप विशेषतोऽपि परमानन्दप्रदानोद्यतः सूर्निष्ठिकशेखरः स परमानन्दः प्रभुः प्राणिनाम् । यस्य श्रीजयसिंहसूरिरजनि ख्यातो विनेयाग्रणीः, सिद्धान्तार्थविचारसारसरणिः सर्वोपकारक्षमः ||३३|| वन्दे श्रीकनकप्रभस्य समतां | यन्नामवर्णत्रयी, पौरस्त्या विपरीतवाद्यपि निजं रूपं न मुंचत्यलम् । किं चोपश्रुतिनिःश्रितोऽप्यरतिदः कार्ये शुभे सर्वदा, मध्यस्थत्वमुपागमद्दमनिधौ यस्मिन्नकारोऽप्यसौ ||३४|| शिष्यः श्रीकनकप्रभस्य सुकविः श्रीबालचन्द्रानुजो, ज्यायान् श्रीजयसिंहतः प्रतिभया | श्रीवस्तुपालस्तुतः । विश्वाल्हादनठक्कुरान्वयगुरूर्म्मत्या सतां सम्मतः, सूरीणां सुकवित्वशोधनविधौ प्रद्युम्नसूरिः प्रभुः ॥ ३५ ॥ लेखने शोधने सज्जो, सुदिनी वर्षेये ऋषिवाणार्णवैर्मिता (?) १२५७ ॥ ३६ ॥ युग्मम् ॥ प्राग्वाटान्वयनिष्कुटे बकुलवद्द्विभ्रन् | महाशाखितां सर्वाशासु व्यचीचरद् बकुलदेवाख्यो यशः सौरभीम् । सुनुस्तस्य कुमारसिंह इति च द्वेधापि लक्ष्मीपतेस्तस्माद्धन्ध (इति प्रसिद्धमहिमा प्राचीकशद् धीनिधिः ॥ ३७ ॥ धन्धः ॥ मुनिप्रभोः श्रीकनकप्रभस्य, पट्टप्रभुं प्रार्थयते स्म वृत्त्यै । पितृप्रभुस्वानुजपुण्यहे- ' तोरलेखयत्पुस्तकपंचकं च ॥३८॥ गोपतेः उचो राज्ञो यावत् सर्पति भूतले । वेदिका पयसो वापि, वृत्तिस्तावत् प्रसर्पतु ॥३९॥ ग्रन्थाग्र | ४५०० ॥ संवत् १९८३ विक्रमाब्दे पौषशुक्लपंचम्यां शुक्रवासरे प्राग्वाटवंशे रत्नपुरीनिवासिरामलालात्मजेन ऋषभचन्द्रेण पुण्यपत्तनेऽलेखि || शुभं भवतु ॥ श्री ॥ इति समाप्तं प्रव्रज्याविधानकुलकं सटीकम् ॥१७५॥
SR No.090447
Book TitlePravrujyavidhankulama
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, & Vidhi
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy