________________
श्री
प्रव्रज्या०
श्रीप्रद्युन्मीयवृत्तौ
१६१ ॥
| नृपतिस्त्यजन् । त्यजेदेकं कुलस्यार्थे इति सत्यं व्यधाद्वचः ॥ १३॥ तं च व्यतिकरं मत्वा कुमारः सारमाश्रयन् । अमर्पणमनाः खड्गमत्रः ( प्रचलितस्ततः ॥१४॥ त्यक्त्वा गिरिसरिद्ग्रामपुराद्यं पितृदेशजम् ( ब्रजन् ) । पूतां सुरसरिद्वारां प्राप वाराणसीमसौ ||१५|| गंगाग्रे यत्र पार्श्वस्य कायकान्त्यायनीनिभैः । तद्देशनासरस्वत्यां त्रिवेणीसंगमोऽभवत् ॥ १६ ॥ तत्र भ्रमन्नयं पुर्यामपर्यायघृतश्रमः । दध्यौ वन्ध्यं नृजन्मापि, | ममाभून्निष्फलत्वतः ||१७|| मयाऽऽत्मवैरिणा मित्रद्वेषवैरिजनश्रिता । निखिलो वैरितां नीतो, जनः परिजनोऽपि च ॥१८॥ कलासमीरणं स्वस्य, कलाचार्य लभे यदि । तत्प्राग्लग्नरजः पुञ्जमधुनाऽपि धुनोम्यहम् ॥ १९ ॥ इति वैराग्यतो ध्यायन्तयं चित्ते नयं दधत् । पुरश्वरन् 'कलापात्रं, बहुशास्त्रं स एक्षत ॥ २०॥ अपृच्छच्च नरं कंचिद्, वृद्धं कोऽयं महापुमान् ? । कीदृक्कीदृक्कलापात्रं, किंनामा ? किं पठत्ययम् ? ||२१|| स प्राहैष कलाचार्य:, कलासु सकलास्वपि । नाम्ना पवनचण्डश्च प्रचण्डः प्रतिवादिषु ||२२|| शिक्षन्ते नृपतेः पुत्राः, | शस्त्रशास्त्रकलादिकम् । श्रुत्वेति तत्समीपेऽसौ जगाम च ननाम च ॥ २३ ॥ उपविष्टश्व पृष्टश्च कुतस्त्वमित्ति ? तेन सः । एकान्ते कथयामास, 'वृत्तान्तं निखिलं निजम् ॥ २४॥ कलाचार्येण स प्राक्तः, शिक्षात्र त्वं स्थितः कलाः । इदं तु गोप्यं वक्तव्यं, नापरस्य परं त्वया ॥ २५॥ आदेश इति तेनोक्ते, कलाचार्यो नृपात्मजैः । समं तेन च धामागात्, पल्यग्रे भ्रातृजं जगी ॥ २६ ॥ तेन सा प्रणता पुत्रस्येव स्नानाशनादिना । वात्सल्यं विदधे तस्मै, सुधीर्वस्वादिकं ददौ ||२७|| ऊचे च स्यन्दनाश्वादि, मदीयं भवनं धनम् । सर्वमेव तवायत्तं यथेच्छं बत्स ! गृह्यताम् ॥ २८ ॥ स सन्तुष्टमनाः क्रूराध्यवसायपराङ्मुखः । तस्येव सदने तस्थौ, शिक्षमाणः कलावलिम् ||२९|| गुरौ विनयवान् विश्वजनानन्दप्रदायकः । स काले| नाल्पकेनापि, जग्राह सकलाः कलाः ॥३०॥ स विज्ञातकलोऽप्येवं भवनोद्यानगं सदा । तदेकायतचित्तः सन्न मुंचति परिश्रमम् ॥३१ ॥ उद्यानस्यान्तिके, तस्य प्रधानश्रेष्ठिनो गृहम् । अस्ति तुंगं गवाक्षेण, वीक्षमाणमिवाखिलम् ||३२|| तत्रास्ति श्रेष्ठिनः पुत्री, नाम्ना 'मदनमंजरी | साक्षान्मदनवृक्षस्य, मंजरीवातिसौरभा ॥ ३३ ॥ स्वावासशिखरारूढा, सा तदालोकनोद्यता । फलं दलं दलं पुष्पं नित्यं क्षिपति तं प्रति ॥ ३४ ॥ स कलारसिकस्तां न, बालामालापयत्यपि । नेक्षते च गुरोर्भीत्या, विद्यालोभाच्च भूपभूः ॥ ३५ ॥ साऽन्यदा तं कलासक्तं, | मनोभूकृतमानसा । जघानाशोकगुच्छेनातुच्छेनानंगधन्वना ||३६|| बाला विलोकिता तेन सा तदा सात्तदा दृशोः । पल्लवाभकरा च्छन्नतनूः किंकिल्लपल्लवैः ॥ ३७॥ दध्यौ च किमसो देवी ?, किं नागस्त्री ? रमा किमु ? । पृच्छाम्येनामथो केयं ? किमर्थ वाऽत्र तिष्ठति ? ॥३८॥
I
T
॥ १६१॥