________________
श्रीपाण्डव चरित्रम् ॥ सर्गः २ || ॥ ४६ ॥
दिस्थां, चम्पकरर्चितार्चनाम् । तां गुरोः प्रतिमां वीक्ष्य, चन्दने स्म मुहुर्मुदा ॥ ३०४ ॥ एकलव्यं च पप्रच्छ आतरावेद्यतां मम | आजगाम गुरुर्द्रोणः कुत्र ते नेत्रपात्रताम् १ ||३०|५|| सोऽप्यस्मै कथयामाम, महाभाग ! मयैकदा | गुरुरम्यथितश्वाप-शिक्षाहेतो रहःस्थितः ॥ २०६ ॥ तदा विनयनत्रोऽपि योग्योऽयोग्योऽप्यहं सुखे । हेतोः कुतोऽपि गुरुणा, सर्वथाऽपि निराकृतः || ३०७ || गुरुपादाः प्रसादाय, ध्यानाध्यक्षीकृता अपि । भवन्त्येवेति निश्चित्य, प्रदेशेऽत्र समागमम् ॥ ३०८ ॥ साक्षादिव गुरुं पय- अभ्यर्च्य प्रतिमामिमाम् । दिवानिशमिवूनस्थं - अभ्यास महमादधे ॥ ३०९ ॥ नमोऽस्तु गुरवे तस्मै, प्रसादाद्यस्य पश्यत । मादृशो मलिनात्माऽपि, विधत्ते चापचापलम् || ३१० ॥ यो हि स्मरणमात्रेण, इन्ति संतमसं भृशम् । अत्रानोतु गुरोस्तस्य, तरणिः करणिं कथम् ? ।। ३११ ॥
इति जल्पन्तमानन्दात्-तं सरोमाञ्चकञ्चुकम् | अतुच्छार्थवात्सल्य-विवशी गुरुरब्रवीत् ॥ ३१२॥ पल्लीन्द्रपुत्र ! वेदस्मि गुरुरङ्गीकृतस्त्वया । तदत्रार्थे कृतार्थेन, दीयतां गुरुदक्षिणा ॥ ३१३ ॥ एकलव्यस्तदाकर्ण्य, विकस्वरमुखाम्बुजः । तं बभाषे प्रभो ! ब्रूहि, वस्तु किं तेऽस्तु दक्षिणा ? ||३१४ || विभवो वा शिरो वास्तु, मदीयं तत्र दक्षिणा । एतेनाप्याधमण्यन् ते, न त्रिमुच्येय निश्चितम् || ३१५ ॥ इत्युक्तो गुरुरप्यूचे, वाचं निशितोचिताम् । वामेतरकराङ्गुष्ठो, निर्हृय मम दीयताम् ।।३१६ ।। तनिशम्य प्रसन्नास्यः, कृतार्थंमन्यमानसः । सोऽसिधेनुकया छित्त्वा गुरवेऽङ्गुष्टमार्पयन् ॥ ३१७ ॥ पुष्पवृष्टिः सुरैर्मुक्ता, तस्योपर्यपतत्तदा । गुरुभक्तिद्वितीयेन, कः सत्वेन न रज्यते ? || ३१८ | द्रोणाचार्योऽपि सावर्यः, प्रीतचेतास्त्रपानतः । तमा१ ध्यानेन प्रत्यक्षीकृताः । २ क्षिपन् । ३ गुरुभक्तिः द्वितीया अस्मिन् तेन ।
द्रोणार्जुन
पुलिन्दान
समागमः ॥
॥ ४६ ॥