________________
२०॥ यथाशमाननम् ? १२८
उजगार गुरुर्व २९३॥ यत् ते ॥२९२॥ इति ॥२९॥
अथोन्नमय्य चिबुकं, तं स्नेहाद्गुरुरब्रवीत् । दिनेन्दुचत् कथं वत्स!, वहसि म्लानमाननम् ॥२८॥ कृतान्तः कुपितस्तस्य, तस्य संनिहितोऽशनिः। साक्षेपस्तक्षकस्तस्य, निकारं ते चकार यः॥२९०॥ यथार्थमत्रदत् पार्थः, कः प्रभो! न्यकरोति माम् । "किं केशरिकिशोरोऽपि नाचित गरियो ?" ! २९१ किलाश्लिष्य पुरा प्रोक-स्त्वयाऽई वत्स! ते समः । मम शिक्षामधीयानो, न धन्बी भविता परः ॥२९२॥ इति प्राक् सुकृताऽऽसाद्याव , प्रसादाद्यदुदीरितम् । वचस्तत् ते भवन्मिथ्या, मनाति मम मानसम् ।।२९३॥ यत् ते शिक्षाग्रणीरेको, मयाऽद्य ददृशे बने । अहं प्रभो! पुरस्तस्य, कलां नाप्नोमि पोडशीम् ॥२९॥ उजगार गुरुवत्स!, शिष्यो मे नास्ति कश्चन । यस्त्वया हन्त सुल्योऽपि, त्वदाधिक्ये तु का कथा ? ॥ २९५॥ एवं बादिनमाचार्य-मर्जुनो विनयान्वितः । एतं वो दर्शयामीति, बदन् निन्ये तदन्तिके ॥२९६।। पादपान्तरितो भूखा, तत्तादृक् तस्य । लाघवम् । गुरुः प्रथममालोक्य, जगाम पुरतस्ततः ॥२९७|| आयान्तमेकलव्योऽपि, द्रोणमुद्वीक्ष्य दूरतः । आगत्य भूमिलुठन-य॑पतत् तस्य पादयोः ॥२९८|| ज्याकठोरप्रकोष्ठाङ्क, प्रशान्तं ब्रह्मचारिणम् । चिरं संभावयामास, द्रोणस्तं सान्द्रया दृशा ।।२९९॥ अब्रवीच कुत्तो वत्स!, सैष शिक्षाक्रमस्तव ? । न हीदृशममानार्य, भवेत् कार्युककौशलम् ॥३०॥ विहस्य गुरवे - शंस-देकलब्यः कृताञ्जलिः । विदांकुरुत मे विद्या, द्रोणाचार्याजगद्गुरोः ॥३०१॥ नासौ विद्योपदेशस्ते, मत्तः किं मापसे मृषा ? । यथार्थ भद्र ! जल्पेति, गुरुस्तं भृशमभ्यथात् ॥ ३०२ ॥ ___एवमुक्तो विनीतात्मा, पल्लीपतितनूरुहः । मृण्मयं दर्शयामास, स द्रोणं द्रोण-पार्थयोः ॥ ३०३ ॥ पार्थः पृषलवे
१ अपमानम् । २ सदभ्यास विना ।