________________
विष्याभ्यधावत्स !, दुष्करं कृतवानसि ॥ ३१९ ।। अतःप्रभृति कोदण्ड-मालीमिरपि स्फुटम् । आकर्षनपरद्धेषुः, कदाचिन
भविष्यसि ॥ ३२० ॥ इति प्रीत्या तमाश्वास्य, व्यावृत्तो वत्मनि व्रजन् । गुरुर्धनंजयेनैत-द्विनयादन्वयुज्यत ॥३२१॥ मा तेस्तैः शिष्यगुणैः काम-मुपेतोऽपि प्रभो! त्वया । असौ गुणकगृह्मण, कथं न ग्राहितः श्रमम् ? ॥३२२॥ इति पर्यनुयुक्तोऽथ,
द्रोणाचार्योऽप्यचीकथत् । भृणु कारणमत्रार्थे, वत्स! स्वं गुरुवन्सल ! ॥३२३॥ अस्त्रे शास्त्रे च केनापि, मा स पार्थोऽतिशय्यताम् । इयं मम प्रतिज्ञाऽस्मि-नवज्ञाहेतुतां ययौ ॥३२४॥ यथार्थमिदमासाद्य, गुरोरुत्तरमर्जुनः । मेने प्रत्युपकाराय, प्राणानपि न किंचन ।। ३२५ ॥
अथागत्य विनीतांस्ता-शिष्यानध्यापयद्गुरुः । अमुक्त करमुक्त च, शस्ने तेऽपि व्यधुः श्रमम् ।। ३२६ ॥ अशिक्षेतां गदायुद्ध, भीम-दुर्योधनौ पुनः । कलापारंगमैर्जातं, कुमारैरखिलैः क्रमात् ।। ३२७11 शिखिपिच्छमवस्थाप्य, तालपादपमूधनि । द्रोणाचार्योऽथ कोदण्डे, तानारेभे परीक्षितम् ॥ ३२८ ॥ लक्ष्याभिमुखमाली, स्थानमास्थाय तिष्ठत । शरस्तु मद्गिरा मोच्यो, गुरुस्तानित्यनिक्षयत् ।। ३२९ ।। मण्डलीकृत्य कोदण्डं, गुर्वादेशानुसारतः । निक्षिप्तचक्षुषो लक्ष्ये, ते तस्थुः स्थिरचेतसः ॥ ३३० ।। प्रत्येकं तेऽन्वयुज्यन्त, गुरुणा किमु पश्यथ । मां च वृक्षं च लक्ष्यं च, बन्धुनेतांच पुत्रकाः!॥३३१ ।। तेऽग्यमापन्त पश्याम-स्त्वां चैनं च महीरुहम् । सर्वांध चान्धवानेतान् , लक्ष्य चैतत पुरस्थितम् ॥ ३३२ ॥ तेन तद्वचसाऽऽ. चार्यः, सव्यथोऽन्तरचिन्तयत् । अजात्यरत्नत्रदमी, योग्या नोत्तरकर्मणः ॥ ३३३ ।। अथ पार्थ व्यवस्थाप्य, तथैव गुरुरादि
१ स्खलिनबाशः।