________________
कृपः । द्रोणाचार्याय विदधा - वातिथ्यमतिथिप्रियः || २५७ ॥ प्रसन्नमन्यदा द्रोणं, व्याजहार रहः कृपः । प्रणयात् प्रासे किंचि - नान्यथा कर्तुमर्हसि ॥ २५८ ॥ चापाचार्यस्त्वदन्योऽस्ति, यथा न भुवनत्रये । तथाऽमीभ्यः कुमारेभ्यो, नास्ति प्रतिभः परः ।। २५९ ॥ व्याकुरुष्व तदेतेभ्य श्रायोपनिपदं निजाम् । स्थानन्यासेन विद्याया खेलोक्यप्रथितो भव ॥ २६० ॥ शालिबीजं च विद्यां च वप्तुकामैर्मनीषिभिः । सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते || २६१ ॥ एतावद्भिर्दिनैरेते, भित्तिचित्रकर्मणाम् । मया त्वदुपदेशाना- सुपानीयन्त योग्यताम् || २६२ ।।
तथेत्यङ्गीकृते तेन, गत्वा भीष्मान्तिकं कृपः । सर्वमावेदयामास, द्रोणवृत्तान्तमादितः ॥ २६३ ॥ द्रोणाचार्यमथाकार्य, सस्कृत्य कनकोत्करैः । अर्पयामास गाङ्गेयः, पौत्रान् ग्राहयितुं कलाः ॥ २६४ ॥ तदा वैकटिकस्येव, माणिक्येषु सुजातिषु । संस्कारस्तेषु सर्वेषु दिदीपे सुतरां गुरोः ॥ २६५ ॥ संयोगो गुरुशिष्याणा - मन्योन्यं प्रीतिशालिनाम् । तेषामत्यद्भुतः सोऽभू-दिन्दुकैरवयोगवत् ॥ २६६ ॥ वृष्टिं मेघ इवाचार्यः, शिक्षां समतया ददौ । सा त्वाघारवशात्रे, परिणाम पृथक् पृथक् ||२६७॥ उपदिष्टं धनुर्वेद, सर्व वेत्ति स्म फाल्गुनः । विवेदानुपदिष्टं तु, स्वयं शुश्रूषणं गुरोः || २६८|| धनंजयस्य गुर्वन्नसंवाहनभवभ्रमः । मद्दान्तमपि हन्ति स्म, शस्त्राभ्यासपरिश्रमम् || २६९ || सुधास्वादु गुरोः पाद- पयः पीत्वा रजस्वलम् । निजां कपिध्वजवक्रे, चित्रं प्रज्ञामनाविलाम् ॥२७०॥ विनयं कुर्वताऽत्यर्थमर्जुनेन विशेषतः । सर्वशिष्यप्रियस्यापि, गुरोरावर्जितं मनः || २७१ || गुरुभक्तिसुधासेक - संपच्या सितबाजिनः । शिश्वावलिः फलस्फाति-माततानातिशायिनीम् ॥ २७२ ॥
१ मणिपरीक्षकस्य । २ अर्जुनः ।
--