SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ स्वातिवर्षस्य सर्प से कर्म-किरीटिया, मुसाक्तिचितम् ॥२२८॥ आतेऽपि विद्यासर्वस्वे, कृपाचार्यात् समंततः। किरीटि-कर्णयोः प्रज्ञा, मनागपि न तुप्यति ।। २२९ ॥ क्रीडाजुषां कुमाराणां, पुरीपरिसरेऽन्यदा । तदीयाघातमीत्येव, कूपान्तः कन्दुकोऽपतत् ॥ २३० ।। विदधुर्विविधोपायान् , कन्दुकाकर्षणं प्रति । परां क्लान्ति कुमारास्ते, वृथारम्भास्तु लेमिरे ॥ २३१ ॥ तेष्वेवं क्लिश्यमानेषु, वर्षीयान् पथिको द्विजः । विप्रेण सममेकेन, यूना कश्चिदुपागमन् ॥२३२॥ ततो जगदिरे नेन, कुमारास्ते द्विजन्मना । एतस्य कन्दुकस्वार्थे, कथं ताम्यत (थ) पुत्रकाः! १॥२३३॥ इयं वो मधुरा मूर्ति-रियं वः स्फूर्तिरुत्तरा। इयं पश्चातुरी चापे, किणसंचयसूचिता ॥२३४॥ तदल्पीयसि कार्येऽस्मिन् , किमारम्भोऽयमीरशः।। "करप्राप्ये फले कोहि, समारोहति भृहम् १" ॥२३५।। तदेषोऽहमिदानी वः, करिष्यामि समीहितम् । इत्युक्त्वाऽदर्शयत् तेषा-भिपीकाः करवर्तिनीः ।। २३६ ॥ मयाभिमन्त्रिता घेताः, समानेष्यन्ति कन्दुकम् । इत्याख्यायाक्षिपत् तासा-मेकां विग्रोऽनुकन्दुकम् ।। २३७ ॥ बिभेद कन्दुकं सद्यः, सा च नारावलीलया। "सुहस्तहस्तमुक्तानि, चाणायन्ते तृणान्यपि ॥२३८।। अन्ते तामन्ययाऽविध्यत् । तामप्यपरया तथा । एवं परम्परायोगा-दुपादत्त स कन्दुकम् ।। २३९ ॥ भुवनाश्तभूतेन, कर्मणा तेन विस्मिताः। प्रणम्य बद्धाजलयः, कुमारास्तं व्यजिज्ञपन् ॥२४०॥ आर्येक्षांचक्रिरेऽस्माभि-श्रापाचार्याः सहस्रशः। परं नृलोके नालोकि, कस्यापि प्रौदिरीदृशी ॥२४१।। गुरुर्षा त्वं पिता वा त्व-मस्माकमसि संप्रति । एते स्मः किंकराः सर्वे, हि किं करवाम ते ॥२४२॥ १ अतिवृद्धः। २ शरशलाकाः ।
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy