________________
| मन्वेषयामास, स नटः कूटनाटके ।। १९७ ॥ परं विविधकेलीभि-गङ्गायाः कूलपालिछु । समं सर्वैः कुमारैस्तैः, सोऽपि चिक्रीडा सर्वदा ।। १९८ ॥ कुमारान् क्रीडतस्तत्र, विदित्वा सुतवत्सलः । भूपतिः कायमानानि, कमनीयान्पकारयत् ।। १९९।। क्रीडाशौण्डतया तेषु, भुक्तिं मुप्तिं च ते व्यधुः । सर्वदाऽप्यधिकः किं तु. भीमोऽभूगोजनादिभिः ॥ २० ॥
कूले परेधुर्गङ्गायाः, सौगन्धिकसुगन्धिनि । सुप्वाप सिकतातल्पे, केलिश्रान्तो वृकोदरः ॥२०१॥ आहारं मधुर स्निग्ध, तस्य भुक्तवतस्तदा । बभूव सुखनिद्रापि, दीर्घनिद्राविजित्वरी ॥ २०२ ॥ इदमन्तरमासाय, दुष्टबुद्धिः सुयोधनः । भीम बद्धा लतापार्शः, अचिक्षेप छलाजले ।। २०३ ।। लतापाशान् विमुच्छेद, छेकश्छित्वा वृकोदरः। स्नात्वा क्षन गङ्गायाः, करीन्द्र इव निर्ययौ ।। २०४॥ निद्रायमाणमन्येद्यु-स्त तथैवाङ्गमर्मसु । धार्तराष्ट्रोतिधृष्टारमा, दन्दमूरदंशयत् ॥ २०५॥ सकोपाः सफणाटोपा, दंष्ट्रया गरलोग्रया । तीक्ष्णाग्रया दशन्तोऽपि, विभिदुस्ते न सत्वचम् ॥ २०६॥ क्रमाजागस्तिो निर्मीभीमस्तानवहेलया । रेणापोहयनागा-शिशुनागानिक क्षणात् ॥ २०७॥ ततः सुयोधनो दौष्पा-ड्रीमे भोलुमुपस्थिते। अजातमशनस्थान्त-विषम विषमक्षिपत् ।।२०८॥ सद्यःप्राणहरे तस्मिन्, दसे भीमं सुयोधनः। कृतान्तदन्तयन्त्रान्तातवन्तममन्यत ॥ २०९ ।। प्रत्युतोर्जितमातेने, तेन भीमस्य तत्क्षणात् । "पुंसां जाग्रत्सु भाग्येषु, विपत्तिरपि संपदे" ॥२१॥
क्रीडामात्रमिदं सर्व-मेतस्येति विचिन्तयन् । भीमोन कोपमलिनं, मनचक्के मनागपि ॥२११ ।। धृतराष्ट्रतनूजास्तु, निष्फNI लारम्भदुःस्थितः । तेजोभिः पाण्डुपुत्राणां, दन्दयन्ते स केवलम् ॥ २१२ ॥
१ तृष्णगृहाणि । २ चतुरः । ३ सः ।