________________
नमुञ्चत ॥ १६६ ॥ धार्तराष्ट्राः कनीयांसः, क्रीडन्तस्ते कदाचन । कुतूहलान् कपित्थादी-नुचानारुरुहुस्तरून ॥१६७ ।। ततः पादप्रहारेण, तानाइत्य महीरुहान् । फलैः सार्धमपात्यन्त, ते भीमेन भुवस्तले ॥ १६८ ।। खेदिता अपि भीमाय, न ते किंचन चुक्रुधुः । स्नेहोऽयं नजद्रोद-तिस्पेशिक्षिकः । १६९ : लब्धास्पदं मनोधात्र्यां, वैरभूरुहकारणम् । मास्सर्यवीजमा बाल्या-दभूहुर्योधनस्य यत् ॥ १७० ॥ तदानीं भीमसेनस्य, बल-विस्फूर्ति कीर्तिभिः। तच्चक्रे किंचिदुच्छ्नं, नव्याभिरिव वृष्टिभिः ॥ १७१॥ ग ओजायितानि भीमस्य, खिद्यमानांश्च बान्धवान् । वीक्ष्यावलेपान कोपाच, बाद दुर्योदनोऽभ्यधात् ।। १७२ ॥ कदKार्यन्ते कथं भीम:, भ्रातरोऽमी स्तनंधयाः । तर दोर्दण्डकण्डूति-हरोऽस्मि तदुपहि माम् ।। १७३ ॥ तेनेत्य स्पर्धमानेन,
समाहृतो वृकोदरः । अभ्यधत्त महाभाग , नाहं बन्धुष दुर्मनाः ।। १७४ ॥ परमित्थं मम स्नेह-चापल्यं पर्यवस्यति । बनेषु दन्तिनो दन्त-क्रीडापि तरुमञ्जिनी ।। १७५ ।। ततोऽवलेप कोपं वा, मुधा दुर्योधन ! व्यधाः ।" यद्वा नैवास्ति मर्यादा, काऽप्यनालोच्य वादिनाम् ॥ १७६ ॥ त्वया हि मम दोःकण्डू-न मनागप्यपोयते । “न घेरण्डो गजेन्द्रस्य, कटकण्डूयने क्षमः" ॥ १७७ ।। अस्ति चेत्तव दोर्दों, यद्वाऽसूया बलीयसी । तदेहि त्वं नियुध्यस्त्र, बुध्यस्व बलमात्मनः ॥ १७८ ।। इत्याक्षिप्तः स भीमस्य, नियुद्धाय पुगेऽभवत् । " किं लोकाधिकघामानः, सहन्ते तेजसो वधम् ? " ॥ १७९ ॥ यदा विरमतो नेतौ, निरोद्धरि युधिष्ठिरे । तदा तौ परितस्तस्थुः, कुमाराः प्रेक्षकाः परे ॥ १८० ।। मर्मग्रहारनिर्मुक्त-मनलंकृतरम्ययोः । नियुद्धमेतयोरासी-शिक्षितमनोहरम् ।। १८१॥ नयोयोरपि ख्यात-पलिम्पोऽपि बलिष्ठयोः । प्रावर्ततौचराधर्य-परावृत्तिः