________________
.
श्रीवाण्डव चरित्रम् ॥ सर्गः ॥
कौरवाना
"या
घेता
स्वतालमुत्ता
शतं पञ्च, पाण्डवास्ते तु संहनाः। शत पाच स्वर, समिर हस्तिनापुरे ।।१५१॥ भीष्मं च धृतराष्ट्रं च, पार च विदुरं च ते । प्रदिप्रमातमभ्येट्य, नमस्पन्ति स्म भक्तितः ।। १५२ ॥ ततः सत्यवती पूज्या-मम्बिकाऽम्बालिके तथा। अम्बा-गन्धारिकाकुन्ती-मुख्याच प्राणमनमी ।। १५३ ।। मातृणां च पितृणां च, तया वात्सल्यवत्तया । निर्विशेष मनस्तेषु, “गुरवो हि समाशयाः" ।। १५४ ॥ शैशवादप्यजायन्त, पाण्डवाः परमाईताः । “यस्थ यात्परो लोक-स्तस्य चेष्टा हि तादृशी" ।। १५५ ।। दिवा वा यदि वा नक्तं, भक्तिप्रवीकृता इत्र । चेतस्तपां न मुञ्चन्ति, पश्चापि परमेष्ठिनः ॥ १५६ ॥ रहस्वितापरीक्षार्थ, निर्णीतपणपूर्वकम् । सहस्ततालमुत्ताला-स्ते कदाचिद्दधाविरे ।। १५७ ।। गङ्गायाः पुलिने : जातु, सिकताकणकोमले । सर्वे कुमाराश्चिक्रीडु-स्ते शश्वत् पांशुकेलिभिः ॥ १५८ ।। तुङ्गात्तटीविटङ्कात्ते, जलकेलिकुतूहलान् । यमुनायां कदाचिच, झम्पापातं वितेनिरे ॥१५९ ॥ रहाकेलि-रजःकैलि-जलकेलिपु लीलया । तान् बन्धनधरीचक्रे, बलोदारो वृकोदरः॥ १६० ॥ सदानदातप्रकृति-धर्मात्मा धर्मनन्दनः । बबन्ध बन्धुषु स्नेह, विशेषेण सुयोधने ।। १६१ ॥ वत्सलोऽपि निसर्गेण, पान्धवेषु वृकोदरः । क्रीडयाऽलोलयद्वालान् दुःशासनमुखानिति ।। १६२॥ क्षिप्ताः कदाचित् कक्षायां, भीमेन भुजपीडनात् । श्वासावरोधदौस्थ्येन, संस्थिता इव तेऽभवन् ॥ १६३ ॥ भीमः कदाचिदेतेषा-मन्योन्यं शिरमा शिरः । नालिकरद्वयास्फाल-मास्फालयदनेकशः॥१६४॥ धृत्वा कदाचिन् पादाग्रे, क्रोशमात्रां भुवं नयन् । नासा-जानु-लला. टादौ, त्वचयामास तानसौ ॥ १६५ ।। तान् वध्धा बाहुपाशेन, मजयित्वा चिरं जले। भीमः केलिप्रियो जातु, मृतप्राया
१ गवत्तापरीक्षार्थम् । २ मृताः ।
तं विनिमाड-स्ने
॥४१॥