________________
नयत कर्तुमिच्छसि । जछिनत्ति यत् ।। १४ाकण्य, न यावत् प्रत्यमा जातो दुर्यो
अपमृजस्वलो राजा, राजचक्रविजित्वरः । भविष्यति परं कालः, कुलस्य च जनस्य च ॥१३७ ॥ इति नैमित्तिकादिष्ट-मनिष्टं विदुरस्ततः । सभासमक्षमाचख्यो, धृतराष्ट्रस्य पृच्छतः ॥१३॥ तत्वाकर्ण त्रिएं काल-गुटबोरिबकासुतः । पुनः पर्यनुयुते स्म, कुले शान्तिः कथं भवेन् ? ।। १३९ ॥
अय संदेहसंदोह-च्छिदुरो विदुरस्तथा । अप्रेयोऽपि वचः पथ्यं, तथ्यं च तमुदाहरत् ॥ १४० ।। निखिलस्य कुलस्यास्य, क्षेमं चेत् कर्तुमिच्छसि । तदेनमेनसां पात्रं, दुप्पुत्रं त्यक्तुमर्हसि ॥१४१॥ तनयेनापि किं तेन, कुलप्रलयकारिणा । तेन हेनापि कि कार्य-मार्य ! कौँ छिनति यत् ।। १४२ ॥ आसतां शतमेकोन-मपि स्वस्तिकृतः सुताः । अल्पमल्पेतरस्यायें, त्याज्यमित्थं विदुर्बुधाः ॥१४३॥ आम्बिकेयस्तदाकर्ण्य, न यावत् प्रत्यभाषत । पाण्डुरुड्डामरप्रीति-स्तावद्विदुरमभ्यधात् ॥ १४४ ।। ईदृशानि न लभ्यन्ते, पुत्रभाण्डानि कुत्रचित् । ममोपयाचितरेष, जातो दुर्योधनः सुतः।। १४५ ॥ क्षयः कुलस्य चेत् पुत्रा-दृद्धिस्तर्हि कुतो भवेत् । मानोश्चेद् वान्तमाकाशे, प्रकाशः स्यात् कुतस्ततः ॥१४६॥ युधिष्ठिरादपि ज्येष्ठा, पूर्व गर्भावतारतः । असौ राज्याजसविता, भविता गोत्रवर्धनः ॥ १४७ ॥ तच्छिवाः सन्तु पन्थानः, स्वस्थानगमनाय वः । अभिधायेदमास्थाना-दुदस्थात् पाण्डुभूपतिः ।।१४८॥ दुर्योधनस्य दुःशस्या, नाम यामिर्वभूत्र या । सिन्धूनामधिराजस्ता-मुपयेमे जयद्रथः ॥ १४९ ।।
अथ ते धृतराष्ट्रस्य, वर्धन्ते स्म शतं सुताः। दोष्णोर्येषां स्म जागति, स्फूर्तिलोक्यतोलने ॥ १५० ॥ धार्तराष्ट्राः १ बलशन । २ अप्रियमपि । ३ बहोः प्रयोजनाय । ४ स्वमा ।