SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्री पाण्डवचरित्रम् || सर्गः ३ ॥ ॥ ४० ॥ बलः, सुषेणः पण्डितस्तथा ॥ १२२ ॥ श्रुतायुषः सुवीर्यश्व, दण्डधारो महोदरः । चित्रायुधो निषङ्गी च पाशो वृन्दारकस्तथा ॥ १२३ ॥ शत्रुंजयः शत्रुमहः सत्यसन्धः सुदुःसहः । सुदर्शनश्चित्रसेनः सेनानी दुष्परा जयः ॥ १२४ ॥ पराजितः कुण्डशायी, विशालाक्षी जयस्तथा । दृढ हस्तः सुहस्तश्व, वातवेग- सुवर्चसौ ॥१२५॥ आदित्यकेतुर्याशी, निर्बन्धोऽपि प्रयास्यपि । कवची रणशौण्डच, कुण्डधारो धनुर्धरः ॥ १२६ ॥ उग्ररथो भीमरथः, शूरवाहरलोलुपः । अभयो रौद्रकर्मा च तथा दृढरथाभिः ॥ १२७ ॥ अनाधृष्यः कुण्डभेदी, विराजी दीर्घलोचनः । प्रमथश्च प्रमाथी च दीर्घालापञ्च वीर्यवान् ॥ १२८ ॥ दीर्घबाहुर्महावक्षा, दृढवक्षाः सुलक्षणः । कनकः काञ्चनचैव ध्वजः सुतस्तथा ॥ १२९ ॥ विरजात्यमी सर्वे, रणकर्मविशारदाः । सर्व शौण्डीदोर्दण्डाः सर्वे सर्वाकोविदाः ।। १३० ।। धृतराष्ट्रोऽथ भीष्मादी - नुपवेश्य परेद्यवि । मौहूर्तिकान् समाहूय, पप्रच्छ स्वच्छमानसः ॥ १३१ ॥ आख्यातमशरीरिया, भारत्या युधिष्ठिरः । भविता भुवनश्लाध्यो, न कोऽप्यवास्ति संशयः ॥ १३२ ॥ किं त्वनन्तरमेतमा -द्राजा दुर्योधनः किमु । भविष्यति न वेत्येवं ज्ञानेनालोच्य शं नः ।। १३३ ।। अत्रान्तरे दिगन्तेषु, रजोभिः परिजृम्भितम् । उदतिन्त निर्माता - कम्पे च वसुंधरा ॥ १३४ ॥ शिवाय शिवशंसिन्यो, विरेखुर्विरसं तथा । मार्तण्डमण्डलं चाभूत्, परिवेषेण भीषणम् ॥ १३५ ॥ एतानि दुर्निमित्तानि, प्रेक्ष्य तक्षणानि च । ज्ञानिनः सर्वविदुरं विदुरं प्रत्यचीकथन् ।। १३६ ।। १ प्रयाद्यपि प्रतिद्वयः । अर्जुन नकुल सददेव जन्म | धृतराष्ट्र पुत्राणां नवनवते जन्म ॥ ॥ ४० ॥
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy