________________
शनैः शोकादवातरत् ।। ७७ ।।( विभिर्विशेषकम् ) उवाच सझी प्राणेश, केनताश्चूर्णिताः शिलाः । न जानामीति तेनोक्ते, देवी पुनरभाषत ।। ७८ ॥ अमून् भीमद्रुहः को हि, दारुणान् दारयिष्यति ? । शङ्ख स्वेनैव पापेन, शीर्णास्तु कणशः स्वयम् | ॥ ७९ ॥ तेनानवालपूर्वेग, नगीत्तारक्लमेन च । पुत्रशोकेन चात्यन्तं, कुन्ती चक्लष्यमागमत् ।। ८० ॥ ___अथातिरंहसा कांश्चि-द्याकोशास्यकुशेशयान् । पत्तीनागच्छतो दूरा-दीक्षांचक्रे क्षितीक्ष्वरः ।। ८१ ॥ तत्प्रमोदानुमानेन, । परिज्ञाय नृपोऽभ्यधात् । देवि! त्वं वर्षसे दिल्या, कुशली तब नन्दनः ।।८२॥ इति वर्धयतो रागी, राज्ञस्तेऽपि व्यजिज्ञपन् । अग्रेऽसौ विजयी स्वामि-नक्षताङ्गस्तवात्मजः ॥ ८३ ॥ देवीक्रोडस्थितस्येव, त्वत्पुत्रस्य मनागपि । पेतुषोऽपि गिरेः शृङ्गान्मुखरगोन भिद्यते ॥८४॥ एतत् कथितमस्माभि-रन्यदत्यद्भुतं पुनः । पुरो गत्वा स्वबालस्य, स्वयमालोकयिष्यसि ।। ८५ ।। इति वार्तासुपापान-प्रोपिताशेषवंशसा । त्वरितं त्वरिवं भीम-जननी पुरतो ययौ ॥ ८६ ॥ राजाऽपि राजमानास्या, प्रेयसीपृष्ठतो व्रजन् । समाससाद ने देश, पत्रास्ति क्षेमवान् सुतः ॥ ८७॥ शिलाचूर्णमये तल्पे, सुखोत्तानशयं सुतम् । अक्षतं शतपत्राक्षं, तो निरीक्षांबभूवतुः ।। ८८ ।। तमुद्वोक्ष्य तयोरासीत् , प्रीति चामगोचरा । तौ समालोक्य बालोऽपि, हर्षादुदाहु। नृत्यति ॥ ८९ ।। ऊर्ध्वमूर्ख लसदाई, भीममादाय वक्षसा | कुन्ती सानन्दमालिङ्गव, चुचुम्ब प्रस्तुतस्तनी ।। ९०॥ गतप्रत्यहमुत्फुल्ल-लोचनः पाण्डुभूपतिः। बलादाच्छिब्ध पत्नीतः, सानन्दं सस्वजे सुतम् ॥ ९१ ॥ पृथा पप्रच्छ पृथ्वीशमार्यपुत्र । द्रदीयसी । असौ शिला समग्राऽपि, विभिदे कणः कथम् १ ॥ ९२ ॥ पार्थिवः कथयामास, प्रिये ! तव तनूरुहः ।
१ विकसितमुखकमलान । २ नष्टसर्वविघ्ना ।