________________
देवकी तत्र, प्रस्रवत्मिकञ्चका । चिरेण पुत्रगावस्या, सौरूपनविलियम् ।। ॥ चार युरानाथ-मुग्रसेनं नरेश्वरः । सत्यभामां सुता सोऽपि, जिष्णवे विष्णवे ददौ ॥ ४४२ ॥ दिव्यस्य धनुषः पूर्व-मारोपणपणीकृताम् । गुरुमिस्तामनुझातः, परिणिन्ये जनार्दनः ॥ ४४३ ।।
इतः परीतः शोकेन, कंससीमन्तिनीजनः । विललाप विलिप्साङ्गा, सर्वतः भोणिरेणुमिः ॥ ४४४ ॥ समस्ताभिः सपनीभिः, समेताऽत्यन्तदुःखिता। ययौ जीवयशास्तत्र, यत्र कंसोस्ति संस्थितः ॥४४५॥ व्याचदीनाननं दरा-द्रजोभिरवगुण्डितम् । तमुवीक्ष्य मृगाक्ष्यस्ताः, समस्ता मुमुहुर्मुहुः ॥ ४४६॥ अवसाने च मूळयाः, प्रोच्छलच्छोकविह्वलाः । सोरस्ताङ सपूत्कार-मरुदन्मेदिनीगताः॥४४७।। अथ कंसस्य संस्कारे, जातेऽपि मगधात्मजा। यादवेष्वतिसाक्षेपा, न निवापाञ्जलि ददौ ॥४४८ उच्चैरवोचदेतच्च, सरामैः सजनार्दनः । यादवैः सह दास्यामि, प्राणेशाय जलाञ्जलिम्॥४४९।। सप्रतापाजरासन्धात् , क दवादिव यादवाः। कान्दिशीका प्रयास्यन्ति, शरणाय मृगाव॥४५०|| इति प्रतिज्ञामेतस्या, निशशाम विशांपतिः। उद्बुद्धक्रोधकल्लोल-लोलमेतज्जजल्प च ॥४५॥ प्रगल्भते किमत्रैवं, सुधा मगधनन्दिनी। यच्छिक्षितं तदाख्यातु, पितुर्गस्वाऽधुनैव सा ॥४५२।। इत्यबज्ञागिरं रानः, श्रुत्वा साऽथ सधुत्सुका । जगाम ग्रामनगरा-फ्युल्लच्य पितुरालयम् ॥ ४५३ ।।
राजा राजगृहे याता-मेता विज्ञाय सादरम् । अमीत इव मीतोऽपि, सर्वानाह्वास्त यादवान् ॥४५४॥ अथ क्रोष्टुकिमाहूय, नृपः पप्रच्छ तैः सह । दिरोषिनि जरासन्धे, पत्कर्तव्यमतः परम् ॥४५५।। स व्याजहार राजंस्ते, भवितारौ सुता.
१ व्याप्तम.