________________
तथा । नाणूरेण यथा गान, कृतान्तस्यातिथीयितम् ।।४११॥ कंसस्य वदनाम्भोजे, समुद्रविजयस्य च । हिमांशुश्चाहिमांशुश्च, विष्णुरेकोऽप्यभूत्तदा ॥ ४१२ ॥ मृत्युमेभिरभिज्ञान-त्विारिष्टादिदारिभिः। कंसः कशीकृतक्षोभः, स्वान् मटानिदमब्रवीत् ।। ४१३ ।। रे! रे! गृहीत गृहीत, चाणूरपरिपन्थिनम् । स्वयंभूमलमुन्मत्त-मेनं गोपालचालकम् ।। ४१४।। एतद्वंद्यश्च संगृह, निग्रायो निर्भः परः । “चौरस्वीकारकर्ताऽपि, शीर्षच्छेद्यो हि चौरवत्" ।। ४१५ ॥
व्याजहार हरिः कंस, विक्टभ्रकुटिस्ततः । किं दुरात्मन्ननात्मज्ञ, जिवामालोच्य नोच्यते ? ॥४१६॥ अस्मिन् रङ्गाहान्तमें, भुजंसूर्योष्मणा कृतः । त्वया दुष्कर्मकिपाक-परीयाकोऽनुभूयताम् ।। ४१७ ।। इति व्याहृत्य संहाँ, कंसं संतमसोपमम् । हरिस्तन्मश्चमारोह-दुदयाचलसोदरम् ॥४१८॥ बालबान्धरविध्वंस-स्मरणारुणलोचनः । तत्रारूढः पुनः प्रौढ-मभ्यधत्त |स निर्भयः ।। ४१९ ॥ सन्ति ये तब मित्राणि, सन्ति ये ते च वान्धवाः । राजानस्ते महौजस्काः, मन्तु त्राणाय तेञ्चना | ।। ४२० ।। अरे! स्मरसि निस्त्रिंश!, जातमात्रान्ममाग्रजान् । निःशूकहृदय ! स्कार-शिलास्वास्फालयिष्यसि ॥ ४२१॥ आसीहोर्दण्डशौण्डीर्य-गर्वः खर्वेतरस्तव । तत्वया त्रातुमात्मान-मायुधे दीयतां मनः॥ ४२२१॥ इत्युक्त्वाङ्किप्रहारेण, भड्क्वा मुकुटमुटम् । क्षितौ चिक्षेप तं मचा-दृत्वा केशेषु केशिजित् ॥ ४२३ । रामोऽपि युद्धमाधत्ते, मौष्टिकेन समं दृद्वैः ।। बन्वैस्तथा यथा मचाः, सर्वेऽप्युचैः प्रचुकुशुः॥ ४२४ ॥ प्रस्विद्यद्वेषमानाङ्गः, साश्रुणी भपकातरे। दिक्षु रक्षणसाकारः, कंसश्विक्षेप चक्षुषी ॥ ४२५ ।।
१ एनम्य पक्षपाती । २ 'मुजशीयो०' प्रतिद्गय । ३ बहुतरः ।