________________
भवन्मृत्युः कातरो मथुरापतिः । नियुद्धायादिशहूरा-बाणूरं दृष्टिसंज्ञया ।। ३८१ ॥ कृष्णं कटाक्षयन् दृष्ट्या, चाणूरः क्रूरमानसः । वाचमुच्चारयांचक्रे, राजचक्रस्य पश्यतः ।। ३८२ ॥ योऽयास्ति क्षत्रियोत्तंसः, शूरंमन्यश्च यः किल । अधुना मल्लयुद्धेन स मया सह युध्यताम् || ३८३ || इत्याक्षिप्तो हरिः क्षिप्रं फाल्योत्तीर्य मञ्चतः । चाणूरस्याग्रतो भूत्वा, प्रगममिदमभ्यधात् ॥ ३८४ ॥ एषोऽस्मि क्षत्रियोत्तंसः, शूरमानी तथास्म्यहम् । तवास्मि रे ! कृतान्तश्व, विपक्षक्षोददीक्षितः ।। ३८५ ।। अथावोचत चाणूरः, सिन्दूरारुणलोचनः । अरे रे ! बाल! गोपाल है, किमलीकं प्रगल्भसे १ ।। ३८६ ॥ नाद्यापि ते मुत्रस्यास्य, स्तन्यगन्धो निवर्तते । ततखपन्ते गात्रेऽस्मिन् पतन्तो मम मुष्टयः || ३८७ || पयःपानेन धीनत्व - मानीतो गोष्ठतर्णकः । रे ! कक्षाकोटरे क्षिप्तो मया क्षिप्रं विनङ्गयसि || ३८८ || अरिष्टारिस्भाषिष्ट, ततो धीरोचितं वचः । विकत्थनं तवापीत्थं, मल्लराज ! न राजते || ३८९|| आजन्म त्रिहिताभ्यासः कत्वं मल्लमतल्लिका ? । गोपाल कुलविद्यानां पारवा क्व चास्म्यहम् ? ।। ३९० ।। किं खनेन नियुद्धेन, द्रक्ष्यतेऽन्तरभावयोः । चण्डेन पवनेनैव तूलपैल - नगेन्द्रयोः ।। ३९१ ।। इत्युक्त्वा सभुजास्फोटं, केशवे वल्गु वल्गति । हाहाकारपरो लोकः, परस्परमभाषत ॥ ३९२ ॥ तरुणः क नु चाणूरः १ क चासौ गोकुलार्भकः : । न युक्तमनयोर्युद्धं, वृष-तर्णकयोरिव ॥ ३९३॥ एवमाकर्ण्य लोकोक्ति, कंसः कोपादवोचत । असौ यच्छालापेषु, दक्षो दुःशिक्षितो जनः ॥ ३९४ ॥ इह केन समाहूता वायातौ गोपदारकौ । दुग्धमत्तौ स्वयं होतों, युध्येते को निषेधति १ || ३९५ || इत्याक्षेपवचः श्रुत्वा, शूरसेनमहीपतेः । लोकस्तदा तदाकृतं मत्वा मौनमशिश्रियत् ॥ ३९६ ॥ गर्वात्
१ शत्रुचूर्णने दीक्षितः | २ श्रेष्ठमहः । ३' पूग० ' प्रविनय० ।