________________
जात्यवाजिवन् || ३४९ || दुर्दमं दम्यमानं तं पद्मगं वीक्ष्य विस्मिताः । तस्थुत्वा विमानानि, नभोभागे नभश्वराः ॥ ३५० ॥ कृष्णेन दृढमूरुभ्यामाक्रम्य दमितस्तथा । स यथा सर्वथा जज्ञे, निर्विषो मरणावधि ।। ३५१ ॥ प्रेमीतप्रायमालोक्य, लोकोतस्कृपापरः । दूरादुत्सृज्य तं विष्णुः स्नात्वा तीरमुपागमत् ।। ३५२ ।। यमुनातीरवास्तव्यं वतविभैस्तपस्विभिः । स यथार्थाभिराशीर्भिरभ्यनन्द्यत भूरिशः ॥ ३५३ ॥ तेन नव्यावदातेन, सानन्दैनन्दनन्दनः । घोषादागत्य वेगेन, गोपालः पर्यवार्यत ।। ३५४॥ गायद्भिः कृष्णगीतानि, वादयद्भिव शृङ्गिकाः तैः समं राम- गोविन्दौ, चलतुर्मथुरां प्रति ॥ ३५५॥ विस्मयोत्फुल्लनयनै-र्वीक्ष्यमाणः पुरीजनैः । मधुरागोपुरं गोपै - रुपेतः प्राप केशवः || ३५६ || अतुल्ययोः प्रतोल्यन्त-विंशतो राम-कृष्णयोः । कंसादिष्टमहामात्र प्रयुक्तौ मदविह्वला ||३५७|| पद्मोत्तरो हरिं हन्तुं चम्पकच हलायुधम् । उजुरी सिन्धुरौ प्रेत- पतिप्रायादधावताम् ॥ ३५८ ॥ युग्मम् ॥ लीलायितशतैस्तैस्तैः, पद्मोत्तरमनुत्तरैः । कुशलो गजशिक्षासु, खेलयामास केशवः ।। ३५९ ।। उत्खाय दन्तशले, सलीलं तस्य दन्तिनः । निष्ठुरैर्मुष्टिभिर्विष्णु-ददौ कीनाशदासताम् || ३६० ।। कैण्ठीरवोत्प्लुत्य, मित्त्वा कुम्मस्थलं बलात् । हन्ति स्म रौहिणेयोऽपि निष्कम्पञ्चम्पकद्विपम् ।। ३६१ ।। विपुलं बालकाकीर्ण, विकीर्णकुसुमोत्करम्। सभीकमुत्पताकं तौ, जग्मतुर्ममण्डपम् || ३६२ || रङ्गं विशति गोविन्दे, निवृत्तविषयान्तराः । लोकस्य विस्मयस्मेरा, निपेतुर्युगपदृशः ॥ ३६३ ॥ स एष केशिकीनाशः, स एष वृषमर्दनः । नन्दस्य नन्दनः सोऽयं, सोऽयं सर्पस्य दर्पहा ॥ ॥ ३६४ ॥ गोपालतिलकः सोऽयं सोऽयं सिन्धुरवातकः । साध्यमानो जनैरेव -मदर्श्यत परस्य
१ मृतप्रायम् । २ कीनाशः- यमः । ३ सिंहः ।