________________
वसुदेवोऽयं दुर्भाव, तस्य वात्वाऽऽसमानुपात् । रामाय दापयामास, सर्वां शिक्षा मनोगताम् ॥ ३१८॥ समुद्रविजयादीनां सर्वेषामग्नजन्मनाम् । शौरिविज्ञापयामास, कंसाचरणमादितः ।। ३१९ ॥ अहवच्च शौरिस्तान् , कृष्णावम्भहेतवे । गाय हि अनमति बारमार्गरर्तिः । ३२ ॥ अथ कंसानया राक्षः, प्रतीहारो यथोचितम् । तदोपदेशयामास, पृथग्मश्चेषु गौरवात् ।। ३२१॥ ततः क्षौमकृतोल्लोच, मनमेकं मनोरमम् । कंसोपि स्वयमध्यास्त, विमानमिव वासवः ॥ ३२२ ।। दशार्दा दशदिक्पाल-समाः शौरिनिमन्त्रिताः । न्यवेश्यन्त कृतोचले, मञ्चे कंसेन सादरम् ॥ ३२३ ॥ ____ अथालोक्य नृपान् कांश्चि-गच्छतो गोकुलाध्वना । अबोचत वलं विष्णु-मल्लालोकनकौतुकी ॥३२४|| मधुरामार्य ! गच्छावा, पश्यावो मल्लसंयुगम् । प्रसीद माऽन्यथा कार्षीः, पूर्यतां मे मनोरथः ॥ ३२५ ॥ एतस्य पितुरादेश-माख्या समयोऽधुना । इति रामो विनिश्चित्य, यशोदामभ्यभात्तदा ॥ ३२६ ॥ मथुरां गन्तुमिच्छाव-स्ततो नौ सपय दुतम् । सा प्रत्यूचे न पुक्योः, सपनावसरो मम ॥ ३२७ ॥ क्रोधारुणाक्षः साक्षेप, बलस्ता प्रत्यभाषत । अरे! दासिन जानासि, स्वा. स्मानमतिगर्विता ॥३२८|| तामित्युक्त्वा करे धृत्वा, कृष्णं कृष्णमुखं रुपा। स्नानायाबाय कालिन्दी, कालिन्दीकर्षणो ययौ ॥३२९|| उपनीरं स वानीर-तुले विष्णुमभाषत । वत्स! विच्छायवदनः, किमिदानीं विलोक्यसे ? ॥३३०॥ हरिः प्रत्याह दासीति, किमात्य मम मातरम् ? । मातुर्यकारमाकर्ण्य, सकणों हि धमेत कः ॥३३१|| रोहिणीतनयः कृष्णं, मूर्ध्नि चुम्बभवोचत । यशोदा नैव ते माता, न च नन्दः पिता तव ॥ ३३२ ॥ देवकालभवा देवी, देवकी जननी तव । स्तन्यं या
१ऽपि ' इति प्रतिद्वय । २ महयुद्धम् । ३ बलः।