________________
नन्दगोकुले । ततस्तद्हणोपाय, निरपायं विचिन्तय २८७॥ वृहस्पतिश्याचाच, देव देवस मोपमम् । रङ्ग शाङ्गाधिरोपाय, निर्मापय मनोरमम् ॥२८८|| आहूयन्तां च भूपाला-चापारोपमहोत्सवे । विहायाहवशौण्डीरान , दशार्हान् सुतवत्सलान् ।।२८९।। इदं चाचोष्यतां चापं,यः समारोपयिष्यति । तस्मै कंसास्त्रसारं स्वां,सत्यभामांप्रदास्यति ।।२९०॥ निजैरनुत्सुकैः छकै शौण्डी..
रुद्भटैटः । धृतासिदण्डैः कोदण्ड-मण्डपः परिवेष्ट्यताम् ॥२९१|| आयातश्च ततश्चाप-समारोपणकर्मणि । स तैर्गोपस्तवाराति| जीवग्राहं ग्रहीष्यते ॥ २९२ ॥ इत्यासूत्रितमन्त्रं तं, मन्त्रिणं मधुरापतिः । त्वमेवेदं विधेहीति, मप्रसादं समादिशत् ।। २९३।। । ___मन्त्रिणाऽनुष्ठिते तस्मिन् , मिलत्सु क्षोणिभषेषु । इमं वृत्तान्तमज्ञासी-दनाधृष्टिबलाग्रजः ॥२९४।। छन्नं शौर्यपुरात् । सोऽथ, प्रस्थितो मथुरां प्रति । अवान्सीद्वन्धुवात्सल्या-गोकुलेऽनाकुलो निशि ॥२९५॥ बलं बलादनुज्ञाप्य, कृष्णमादाय गच्छतः । प्रातर्दुमाकुले मार्ग, वटेऽस्य स्यन्दनोऽसवलत् ।।२९६|| स्थं महारथो नेतुं, नालं ज्येष्ठो यदाग्रतः । तदा दुर्वामियोन्मूल्य, कृष्णो रेऽक्षिपद्धटम् ॥२९७॥ वीक्ष्य विष्णोर्भुजस्थाम, दृष्टोऽनाधृष्टिरजसा । तमालिलिङ्ग सर्वाङ्ग, भूयो भूयधुचुम्ब च ॥ २९८ ॥ उपेत्य मथुरां सोऽथ, पुष्पप्रकरदन्तुरम् । मुक्तमुक्ताफलोचूलं', संप्रापचापमण्डपम् ॥२९९।। उच्चमञ्चस्थितान् पश्यन् , स्वःपतीनिव भूपतीन् । रथं मुक्त्वा बहिस्तत्र, स विवेश सकेशवः ॥ ३०० ।। मण्डपान्तः कृतार्चस्य, धन्वनोऽन्ते निषेदुपीम् । निर्जितामर्त्यरामा स, सत्यभामां न्यभालयत् ।। ३०१ ॥ निपेतुः सत्यभामायाः, पीचरांसस्थले हरौ । मुग्धाः स्निग्धा विदग्धाश्च, पश्वेषुविवशा शः ॥ ३०२ ॥ कलिङ्ग-वङ्गा-काश्मीर-कीरप्रभृतिभूमिपाः। आगम्य
१ त्यक्त्वा । २ ' अनेकैः' इति प्रत्य० । उचल:-वितानम् ।