________________
॥ १९५ ।। सोऽप्यूचे कंसतः प्राप्तो, बन्धोऽप्येष घिनोति माम् । यन जागरितोऽद्राक्ष-मपूर्वामिदमद्भूतम् ॥१९६॥ शिशोस्तस्यानुमावेन, सुखोचारमिति द्रुतम् । उत्तीर्य यमुनां शौरि-रगमन्नन्दगोकुलम् ॥ १९७ ॥
तदैव दैवयोगेन, यशोदा नन्दगेहिनी । तनयां जनयांचक्रे, मनोरमतमाकृतिम् ॥ १९८ ॥ तामादाय यशोदायाः, समर्प्य घ तनूरुहम् । कृतकृत्यमनाः शौरिः, स्वस्थानं पुनराययौ ॥ १९९ ।। तां नन्दपुत्री देवक्याः , स च वेगादुपानयत् दरीकृतप्रमादास्ते, पत्तयश्च जजागरुः ॥ २०० ।। बालिका तामुपानिन्यु-स्ते कंसाय निरादराः । सावनं वीक्ष्य सोऽप्येनामकरोल्लूननासिकाम् ॥२०१॥ प्रीत्या भीत्या च योऽश्रान्त, समयते मित्रशत्रुभिः । वध्यः सोऽप्यनया कंसः, कूटसत्यं मुनेवचः ॥ २०२॥ इत्वं हसिया शोल्लुण्ठ- विमुमानिन् । स पृरांगगनात्मानं, मन्वानो राज्यमादधे ॥२०३।। (युग्मकम् ) कन्यामवज्ञया कंसो, देवक्याः पुनरार्पयत् । “उमरभुजस्थाना-मनास्था क्षामधामसु" ।। २०४॥ ___अथाभूगोकुलं सर्व, शिशुना तेन कान्तिमत् । पूर्वाद्रेरिव चालेन, पालेयद्युतिना शिरः ।। २०५॥ तदाऽऽसीदुद्यदानन्दं, मनो नन्द-यशोदयोः । तादृशस्य सुतस्याप्ती, को हि नाम न हृष्यति ? ॥२०६।। नन्दोऽच तस्य कृष्णत्वा-नाम कृष्ण इति व्यधात् । अङ्गमारोप्य गोप्यस्त, लालयन्ति स्म विस्मिताः॥२०७॥ ववृधे गोले बालः, पाल्यमानो यशोदया । सिच्यमानः शचीदेच्या, कल्पद्रुरिव नन्दने । २०८॥ गच्छबुत्सङ्गमुत्सङ्गाद, पाणिं पाप्मेश्च संचरन् । स गोकुलममाघीणा-मभूदत्वन्तवल्लभः ॥ २०९ ॥ तं तमुत्सवमुद्दिश्य, तनयालोकनोत्सुका । अगमद्गोकुले देवी, वात्सल्येनान्तरान्तरा ॥
१ अधिकबाहुबकानाम् । २ हीनतेजस्सु । ३ सूर्येण.