________________
श्रीपाण्डव परित्रम् । सर्गः २॥
| वसुदेव | वृत्तान्तः। .
जन्नत
॥२६॥
5। देवकी देवी, स्वामिनात्मजलाभतः । कंसदौष्ट्याच्च मे चेतः, प्रसीदति विपीदति ॥ १८० ॥ त्वपि नाथेऽप्यनाथाऽस्मि, प्रभो । विनामपुण्यकाम् । पुत्रं यजातमात्र मे, कंसो विध्वंसते मुहुः ॥ १८१ यद्येनमप्यमौ पुत्रं, पापो व्यापादयिष्यति । देवक्यपि तदा स्वामिन् 1, विपक्षेत्र न संशयः ॥ १८२ ॥ अथाभाषत शौरिस्तां, प्रिये ! जीवन्मृतोऽसयहम् । यस्य मे पश्यतः कंसो, जघान पशुवत् भुतान् ।।१८३॥ तन्मया तनयः सोऽयं, संरक्ष्यः कंसराक्षमान् । स्वगर्भ दोहदेयः, पालयेर्मा | स्म खिद्यथाः ।। १८४ ॥ रक्षोपायस्त्वसावस्ति, नन्दो मे गोकुलाधिपः । तनूजमेनं यत्नेन, स गुप्तं वधयिष्यति ।।१८५।।। इति पत्या कृताश्वासा, जातविश्वासमानसा । देवकी पालयामास, गर्भ सुखसुखेन तम् ॥ १८६ ॥ अयं मे हन्त ! हेन्तेति, मीवः कंसोऽपि पतिमिः । रक्षा समस्य, करोति स्म विशेषतः ॥ १८७ ॥ अथोर्जस्विप्रमाजालं, श्रीवत्साङ्कितवक्षसम् । श्रावणस्यासिताष्टम्या, लग्ने लोकोत्तरे निशि ॥ १८८ ॥ लक्षणाख्यातसंभाव्य-भरतामहर्द्दिकम् । देवताधिष्ठितं देवी, देवकी सुषुवे सुतम् ॥ १८९ ॥ (युग्मकम् ) ये तत्र गर्भरक्षार्थ-मामन् कंसपदातयः । ते भरतार्धदेवीभि-निंद्रामानिन्यिरे तदा ।। १९० ॥ ज्ञात्वा निद्रावतस्तांस्तु, देवी शौरिमजहबत् । सोऽपि तंबालमादाय, प्रतस्थे गोकुलं प्रति ।। १९१ ॥ देवमुक्तपतत्पुष्प-दन्तुरीभूतभूतलम् । प्रज्वलद्दीपिकाश्रेणि-विश्राणितनवश्रियम् ॥१९२|| शौरिः सुरैधृतच्छत्र-मुताटुनचामरम् । तनयं तं नयनुग्र-सेनेनाजल्पि गोपुरे ॥१९३।। (युग्मम्) किमेतदृश्यते नेत्र-प्रियं भावुकमद्भुतम् । कथय प्रथय श्रोत्र-पुटे पीयूषसारणिम् ॥ १९४ ।। ततः स्मेरमुखः शौरि-रेतस्मात् काष्टपञ्जरात् । यस्त्वां मोचयिता सोऽय-मिति मन्दमचीकथन
१ घातकः । २ आश्विनस्य ' इति क्वचित्पाठो दृश्यते, स न साधुः । ३ ' अथ' इति प्रतिद्वयः।
॥२६॥
A1