________________
स्पघात् ॥ १६५ ।। एहि देवर नृत्यावः, स्वसुस्तव महोत्सवे । तमित्यालप्य सा दोम्यो, कण्ठे सापहमग्रहीत् ॥१६६।। आः! तारुण्यमहारण्य-मल्लूकि ! निरपत्रपे ! । अपेहीति स तां रूक्ष-मधिक्षिप्योक्तवानिति ॥१६७ ॥ यद्विवाहोत्सवे मत्ता, नृत्यस्यत्यन्तगर्विता । तस्याः सप्तमगर्भेण, तब घातिथ्यते पतिः ॥१६८॥ एवं वात्रयमन्त्रेण, वित्रासितमदोदया । साभुञ्चच्च मुनेः कण्ठं, सोऽममच यथागतम् ॥ १६९ ।। सा कंसस्य तदाचख्यौ, सोपि क्षोभमगादशम् । “ मृत्युदौर्गत्ययोर्वार्ता, न | स्यात् कस्यातिहेतवे?" ॥ १७० ।।
मृत्युतो विम्यदन्येधुः, कंसः कूटैककोविदः । दाक्षिण्यस्य निधि नीत्वा, रहः शौरिमभाषयत् ॥ १७१ ॥ कृत्ताधिताथिनं मित्र, किचित् त्वामहमर्थये । ये गर्भाः सप्त देवक्या, भवेयुस्ते भवन्तु मे ॥ १७२ ।। बलभद्रादयः सन्ति, भूयांसोऽपि ममात्मजाः । एभिः सप्तभिरेषोऽस्तु, ममापत्यैरपत्यवान् ॥ १७३ ॥ एषोऽप्यमून्यपत्यानि, स्नेहतो लालयिष्यति । इत्यालोच्च प्रियां शौरि-स्तथेति प्रतिपत्रवान् ।। १७४ ॥ (युग्मम् ) जातमात्रानपि क्रूरः, संरक्ष्यारिष्टमन्दिरे । ततः कंसोहीद्गर्मान् , देवक्याः षडपि क्रमात् ॥ १७५ ।। मथुरायामियं वार्ता, पावर्तत समन्ततः । सुताः षडप्यहन्यन्त, ते कंसेन दुरात्मना ॥१७६|| खेदोऽभूच्छोरिदेवक्यो-रिमां श्रुत्वा जनश्रुतिम् । "पुत्रव्यापादनोदन्तः, पीडायाः परमोऽवधिः" ॥ १७७ ॥ दधौ सप्तमहास्वन-भूचितं निश्चितोदयम् । उदारमन्यदा देवी, देवकी गर्भमद्धतम् ॥ १७८॥
पत्युः शभंस सा स्वमान् , प्रातस्तामरसानना । भरतार्धपतिः पुत्रो, भावीत्याख्यन् स तत्फलम् ॥ १७९ ॥ अवादीद् १ 'संरक्षा' प्रतिद्वय १२ सूतिकागहे । ३ कमलमुखी ।