________________
भीपाण्डवपरित्रम् ।। सर्गः२॥
वसुदेववृत्तान्तः।
॥२५॥
इत्थं तदा विदित्वा तं, समुद्रविजयानुजम् । प्रमोदमेदुरं चेतो, दधिरे रुधिरादयः ॥१५०॥ ततः स रोहिणी रोह-द्विशप्रेमविश्वाम् । उपायस्त सदानन्द-चन्द्रमा इव रोहिणीम् ।। १५१ ॥ शौरिं जगाद देवोऽध, वत्सागच्छ निजा पुरीम् । “ग्रहा अपि परक्षेत्रा-म्याघ्याः स्वं क्षेत्रमागताः" ॥१५२॥ नतः शौरिरभाषिष्ट, त्वदादिदं तधेति मे । परं स्वपुरमेष्यामि, कालेन कियठाऽप्यहम् ।। १५ । भुष वः शतशः सन्ति, नरखेचरकन्यकाः । ततस्ताः शीघ्रमादाय, प्रणन्तास्मि भवत्क्रमौ ॥१५४॥ एवमापृच्छय निर्वन्धान , स जगामोत्तर दिशम् । देवोऽपि सपरीवारः, पुरमारमीयमाययौ ॥१५५॥ शौरिशौर्यकथावन्धैः, समयं गमयन्मुदा । अश्रौषीदेकदा देवः, कौरेया तूर्यनिःस्वनम् ॥१५६ ।। दशौ व्यापारयस्तस्या-मपश्यन्मणिनिर्मितम् । खामी श्रेणी विमानाना-मम्यायान्तीं विहायसा ॥ १५७ । नभोनिभालनोफुल्ल-नयनस्य नरेशितुः । एत्य शौरिः समेतीति, कविवे नमश्चरः ॥१५८|| प्रत्युद्गम्य ततो देवः, प्रवर्तितमहोत्सवे । उत्तुजतोरणश्रेणी, शौरिं प्रावीविशन पुरे ॥ १५९ ।। मथुरातः समागम्य, कंसः संस्मृतसौहृदः । शोरेश्चकार माङ्गल्य-मन्यराजन्यजित्वरम् ॥ १६ ॥
अथ देवमनुन्नाप्य, चिरं शुश्रूषणेच्छया । विनयादनयच्छोरिं, मथुरां मथुरापतिः ॥ १६१॥ पुत्रीं निजपितृभ्यस्य, देवकस्य स देवकीम् । सुरूषामनुरूपेण, शौरिणा पर्यणाययत् ।। १६२ ।। कंसबन्धुर्विविक्तात्मा, मुक्तिकामोतिमुक्तकः । उत्सवे तत्र भिक्षार्थी, अमवान् मुनिराययौ ।। १६३ ॥ कंसपत्नी जीवपशा, यौवनोन्मादमेदुरा । तदानीं संमुखीनाऽऽसीबिन्सीमतपसो मुनेः ॥१६४ ॥ असौ शिथिलधम्मिल्ला, मुनि सस्तस्तनांशुका । क्षीवा श्लथीभवनीवी, दृश्यनाभिस्तम
१ लघुभ्रातपल्ल्यः-मम भार्याः इत्यर्थः । २ उत्तरस्याम् । ३ मदोन्मत्ता ।
॥२५॥