________________
तस्य कण्ठे निचिक्षेप, खजं कुब्जाकुतेरपि ।। १३४ ॥
कृतकोलाहलाः सर्वे, वृते पाणविके तया । जरासन्धाज्ञया योद्ध-मुपचक्रमिरे नृपाः ॥ १३५ ॥ तं पाहिकमप्यूरीकुर्वाणं रुधिरं प्रति । तं पराक्रमिणश्चकः, कुन्ताकुन्ति शराशरि ॥१३६ ॥ उद्बुद्धप्रचलक्रोधो, रुधिरस्तानयोधयत् । न हि क्षुम्यन्ति शौण्डीराः, प्रत्यर्थिषु बहुवपि ॥१३॥ अथ प्रत्यर्थिभूपाल, रुधिरे विधुरीकृते । तैः समं तौर्थिकस्तूर्ण, समरायोदतिष्ठत ॥१३८॥ नभश्चरोपनीतेन, सायुधेन रथेन सः । तानेकोपि पिनष्टि स्म, स चैरितिमिरार्यमा ॥१३९॥ अवलं स्वबलं वीक्ष्य, जरासन्धो धराधवः । देवं समुद्रमादिक्ष-तस्याक्रमणहेतवे ॥१४०॥ तोयकोऽयमांते ज्ञात्वा, सावज्ञमभिपेणयत् । तेन निर्लम्पता सैन्यं, निन्ये देवोऽपि विस्मयम् ।। १४१॥ रूपाविसदृशं तेज-स्तस्य पश्यन् स्वयं ततः । देवः शौर्यपुराधीशः, शरं धनुषि संदधे ॥ १४२ ॥ तेनापि प्रहितं देवो, विनीतमिव सेवकम् । एवं साक्षरमद्राक्षीत् , पादाने पतितं शरम् ॥ १४३ ॥ कौतुकेन तमादाय, व्यक्तां मुक्ताफलोपमाम् । तत्रोचर्चाचयामास, देवस्तामक्षरावलीम् ।। १४४ ॥ शवदाहमयं छप, कृत्वाऽगायः पुरा पुरात् । स ते पादाम्बुज देव 1, वसुदेवो नमस्यति ॥१४५॥ मुक्त्वा स्यन्दनमानन्द-स्यन्दमानाथुलोचनः । आगच्छ वत्स ! वत्सेति, देवो जल्पस्तमम्यगात् ॥१४६॥ सोऽपि स्वरूपमास्थाय, स्थादुत्तीर्य वेगतः । वबन्दे देवपादाम्ज, स्पयन्नयनाम्बुभिः ॥ १७॥ माढमालिङ्गय देवेन, स पुरो विनयान्वितः । कुच वर्षशतं वत्स!, स्थितवानित्यपृच्छयत ॥१४८|| सोऽपि व्यज्ञापय देव, त्वत्प्रभावादगञ्जितः । कवरूपपरावर्तः, स्वैरं भ्रान्तोऽस्मि भूतले ॥१४९॥
। तौयिकेण । २ 'एक' प्रतिद्वयः । ३ अतिरस्कृतः ।