________________
श्री पाण्डवचरित्रम् ॥
सर्गः २ ॥1 ॥ २४ ॥
भगमः कामिमां दशाम् १ | ११९ ॥ भाग्यैकलभ्यं सौभाग्यं वसुदेवस्य संस्मरन् । राजानमनुचक्रन्द, सर्वोऽपि विधुरो जनः ॥ १२० ॥ जनन्यास्तु सुभद्रायाः, सुतशाकाशुशुश्रूणिः । तथा नितान्तं जज्वाल, प्राणानप्यहरद्यथा ॥ १२१ ॥ न गीतं गीतशालासु, न लास्यं लास्यवेश्मनि । बभूव शौरिशोकेन, न च सूर्यध्वनिः कचित् ॥ १२२ ॥ वसुदेवशुचा देवो, न दिदेवे शरद्यपि । वसन्तेऽपि वसन् वेश्म-न्यरोदीद्दीनलोचनः ॥ १२३ ॥ एवं वर्षाणि भूयांसि भृशक्रस्यातिचक्रमुः । एत्यान्यदा निमित्तज्ञो, बभाषे क्रोष्टुकिर्नृपम् ॥ १२४ ॥ दिवा हयं निमित्तेन भृशं निश्चिन्वता मया । यजीवति प्रफुल्लीवसुदेवो निरामयः ॥१२५॥ एवं तद्विरमाकर्ण्य, कर्णपीयुपमारणिम् । भूयोऽपि राजकार्येषु, किंचित् प्रावर्तत प्रभुः ।। १२६ ।।
स्वयंवरेऽथ रोहिण्याः सुताया रुधिराह्नयः । अरिष्टनगरस्वामी, स्वामिनं नः समाह्वयत् ।। १२७ ।। देवोऽपि बन्धुभिः सार्धं, महर्धिक परिच्छदः । शौरिशोकविनोदार्थं, न कन्यार्थे पुनर्ययौ ॥ १२८ ॥ जरासन्धमहाराज - प्रमुखे राजमण्डले । आसीने मञ्चमत्युच्च - मध्युवास नृवासवः ।। १२९ ॥ मन्मथाङ्कुररोहिण्या, रोहिण्याऽथ कटाक्षिताः । भूषाः स्वं रोचयांचकुः, स्फुटिताननचेष्टिताः ॥ १३० ॥ परं धात्रीपरिया, संकीर्तितगुणश्रियाम् । तेपामेकोऽपि रोहिण्या, रोचते स्म न कथन ॥ १३१ ॥ राज्ञोऽवज्ञाय सर्वांस्ता नेकं पाठहिकं दशा। ईक्षांबभूव साका, सा मृगाक्षी मुहुर्मुहुः ॥ १३२ ॥ सोऽप्येवं वादयामास पटहं प्रकटाक्षरम् | अकालक्षेपमेणाक्षि !, राजा क्रीणीहि मामिति ॥ १३३ ॥ गुणैः कुमुद-कुन्देन्दु-सुन्दरैः सा वशंवदा । १ पुत्रशोकाभिः । २ चिक्रीड । ३ “स्पष्टितानेकचेष्टिताः" इति प्रत्यन्तरत्रयपाठः साधुः । ४ ' धात्र्यां' प्र० ५ 'रोहिण्यै ' इति प्रत्यन्तरपाठः साधुः । ६ हे मृगाक्षि !
है।
वसुदेव
वृत्तान्तः ॥
॥ २४ ॥