________________
श्रीपाण्डव | प्रतिवासरम् । कुमारबसुदेवस्य, ततोऽभु सेवक न्यधाम् ।। ८८ ॥ ततो जगाद मानन्दं, समुद्रविजयो नृपः । अस्मद्गो कंमत चरित्रम् ॥ वाहते कस्य, दृश्यते बलमीदृशम् ? ।। ८९ ॥ इत्युक्त्वा सह कंसेन, गत्वा राजगृहे च यः । चक्र सिंहपुराधीश-मुपदासान्तः। सर्गः२॥ मगधेशितुः ।। ९० ।। अस्यायमवदातस्य, कंसः कति सादरम् । नृपो निवेदयामास, मगधानां महीभुजे ॥ ९१ ॥ ततः
प्रीत्या ददौ पुत्रीं, कंसाय मगधेश्वरः । प्रतिपनं युगान्तेऽपि, नान्यथा हि महात्मनाम् ।।९२ ॥ उग्रसेननृपद्वेषा--मधुरामेव सादरम् । कंसाय याचमानाय, स दत्ते स्म प्रसादतः ॥ ९३ ॥ अथ सिंहस्थोऽप्युचे-रुत्वातप्रतिरोपितः । नत्वा प्रसादयामास, तं फलैः कलमो यथा ॥९४॥ जरासन्धेन सत्कृत्य, विसृष्टाः स्वपुरं प्रति । जग्मुस्तिग्मेन वेगेन, समुद्रविजयादयः ।। ९५ ॥
सत्यसन्धजरासन्ध-समर्पितबलो बली । कंसस्तु मथुरां गत्वा, तातं निष्करुणोऽधत् ।।९६।। सेनाभिरुग्रसेनोऽपि, | धू तेन सार्धमयुध्यत । अखिद्यत जयश्रीस्तु, तयोयुद्धे गतागतः ।। ९७ ॥ कथंचनापि निजित्य, कंसः क्रूरशिरोमणिः । साक्षे| पचेताश्चिक्षेप, पितरं काष्ठपञ्जर ।। ९८ ।। दृढं निगडबद्धोऽपि, ज्ञाते तस्मिन्निजात्मजे । सुनेन विजितोऽस्मीति, पिता तु मुदमावहत् ।। ९९ ॥ सुभद्रवणिज शौर्य-पुरादानाव्य सोऽञ्जमा | कृतज्ञमानी संपूज्य, पर्युपास्ते स्म तातयत् ।। १००॥
इतश्च केलिशैलेषु, प्रासादेषु चनेष्वपि । शौरिः शौर्य पुरेऽत्यन्तं, विजहार यदृच्छया ॥ १०१ ।। वसुदेवः सुनेत्राणां, नेत्राणाममृताञ्जनम् । मनमस्तु सदा ध्येयो, मत्रोऽभूच्चतुरक्षरः ॥१.२॥ समुद्रविजयः पौर-रेत्य विज्ञापितोऽन्यदा ! देव!' १ . कलभो' इति पाठः सर्वप्रतिषु दृश्यते, स न साधुः प्रतिभाति । २ नारीणाम् ।
२३॥