________________
मन्मानसैकहंसेन, कंसेनाक्षेपि मे पुरः ।। ७० ॥ ततो विपस्वसुस्तस्या, दुहितुर्मगधेशितुः । असौ सिंहरथानेता, परिणेताऽस्तु संप्रति ।।७१॥ उवाच श्रीसमुद्रोऽथ, समुद्रबिजयो वचः। गतापायमुपायं मे, मनोहरमुदाहरः ॥७२॥ परं पुरा वणिकपुत्रस्त्वयाऽसौ प्रतिपादितः। तदस्मै वणिजे पुत्रीं, जरासन्धो न दास्यति ॥७३॥ इति जल्पत एवास्य, कंसः सेवार्थमागमत् । वसुदेवश्च तं राने, कसोऽसावित्य कथत् ।। ७४ ।। तेजः साक्षादिव क्षा, तमृर्जस्विभुजार्गलम् । प्रांशुमांसलमालोक्य, | नृपतिः पुनरभ्यधात् ।।७५।। अत्यद्भुतोऽयमाकारः, सुलभो न वणिकुले । ततोऽस्य पितरं पृष्ट्वा, क्रियते कुलनिर्णयः॥७६॥ ___अथाहूय महीभा, पृष्टः शपथपूर्वकम् । सुभद्रः सत्यमाचख्यौ, सर्व कंसस्य पश्यतः ।। ७७ ॥ यमुनायामनुस्रोतो, वहन्तीमहमेकदा । अपश्यं कांस्यमपा, प्रातः शौचार्थमीयिवान् ।। ७८ ॥ आदाय तामथोद्घाटव, पार्वणेन्दुसमाननम् |
उच्छृखलप्रभाजाल-मिममालोकयं सुतम् ॥ ७९ ॥ उग्रसेनस्य नामाङ्का-मेतां च मणिमुद्रिकाम् । एतच्च पत्रमत्रेदं, लिखितं | वाच्यते यथा ॥ ८० ।। (युग्मम् ) उग्रसेनसधर्मिण्या, घारिण्या गर्भकठकः । अभवदोहदो भई-मांसभक्षणलक्षणः ॥८१॥ कथंचित् पूरिते तस्मि-अमात्यैर्मतिशालिमिः। पौये कृष्णचतुर्दश्यां, विष्टौ सनुरजायत ॥८२॥ तं दोहदानुभाबेन, निर्णीय जनकद्विषम् ! विन्यस्य कांस्यपेटाया-मुटाकारधारिणम् ।।८३|| मातापि तदहर्जातं, मथुरातोऽय धारिणी ! पत्युः क्षेमाय चिक्षेप, गम्भीरे यमुनाम्भसि ।। ८४ ॥ (युग्मम् ) इति पत्रार्थतो देव, ज्ञातोऽसावुग्रसेनजः । पुत्रस्नेहस्तथाऽप्यत्र, तदा प्रादुरभून्मम ।। ८५ ॥ अथानीय निजं मेह-मस्योत्सवपुरःसरम् । कांस्यपेटोपलब्धत्वा-नाम कंस इति व्यघाम् ।। ८६ ॥ असावपुष्णार्षिष्णु-स्तेजः क्षत्रकुलोचितम् । ततः क्रीडन् बलादेष, वालकैः कलहायते ॥८७|| जनेभ्योऽहमपालम्भ, लेभेच