SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ भोपाण्डव चस्त्रिम् । सर्गः ॥ ॥२२॥ पर नृपः सिंहरथो नाम, स चाज्ञां नो न मन्यते ॥५४॥ जीवनाहं गृहीत्वाऽमुं, बद्धा पाप्मानमानय | आनीते तत्र दास्यामि, स्वां जीवयशसं सुताम् ॥ ५५ ।। रुचितं पुरमेकं च, काश्चनाश्चितमन्दिरम् । ततो विसृज्य तं तं, प्रतस्थेऽस्मत्प्रभुः स्वयम् ॥५६ ।। ( युग्मम् ) प्रणम्य वसुदेवोऽथ, ज्येष्ठबन्धुं व्यजिज्ञपत् । किमिदं देव ! सिंहस्य, चपेटोन्पाटनं मृगे?11 ५७ ।। सति मय्यांप भृत्ये च, स्वयं कोऽयमुपक्रमः ।." अरुप प्रगुणे ध्वान्तं, न ह्यपाकुरुते रविः" ॥५८॥ एवमाबद्धनिर्वन्धं, बान्धवं लघुमात्मवत् । वरूथिन्यामवस्थाप्य, जयाय व्यसृजन्नृपः ।। ५९ ॥ सोऽपि शौर्यावतंसेन, कंमेन सह जग्मिवान् । बद्धा सिंहरथं बन्धो-दिनैरल्पैरुपानयत् ॥६०६॥ कृत्वा जयोत्सवं यान्तं, मुदा राजगृहं नृपम् । क्रोष्टुकिः समभापिष्ट, ज्ञानी रहसि सानुजम् ।। ६१ ॥ येयं जरासन्धसुता, कर्मण्यत्र पणीकृता । क्षयकल्लक्षणैरेषा, पितृश्वशुरपक्षयोः ॥ ६२ ॥ इत्यूचिवांसं विद्वांसं, तं विसृज्य प्रजेश्वरः । ऊचे कुमारमारम्भः, शुभोदर्कोऽस्ति नैप नः ।। ६३ ॥ ततो व्यन्नपयद्राझे, वसुदेवः कृताञ्जलिः | सा स्यात् कन्या यथाऽन्यस्य, तथोपायोऽस्ति मे स्मृतः ॥६४॥ सावधानोऽधुना | देवः, श्रोतुमेतं प्रसीदतु । इतो युष्माकमादेशा-दस्मि सिंहपुरे गतः ।। ६५ । कन्दरादिव निर्गत्य, सिंहः सिंहरथः पुरात् । भटाचखासयामास, चलाद्दन्तावलानिव ।। ६६ ॥ ममाप्यत्यद्भुतैस्तैस्तै- जविक्रमबैभवैः । तेन प्रादुरभाव्यन्त, भाले धर्मजलोर्मयः ॥ ६७ ।। प्रसादपानं पीनांसः, कंसाख्यो मम सारथिः । भङ्गरं बलमालोक्य, रथातूर्णमवातरत् ॥६८।। रथं सिंह. रथस्यासो, जितशक्रपराक्रमः । भुजदम्भोलिना भूभृ-द्वचौरमचूरयत् ।। ६९ ॥ मयूरवन्धं बद्धा च, ततः सिंहरथो स्थी ।। १ भुजवण । २ भूभृता-राब गिरीणां च गर्व चूरयित्वा । कोरककथितो वृत्तान्तः कुन्तीसमीपे। जरासन्धसिंहरथयोवृत्तान्तः।। ॥ २२॥
SR No.090445
Book TitlePandavcharitra Mahakavyam Part 1
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy