________________
श्रीपाण्डव
चरित्रम् ॥
सर्गः २ ॥
॥ २१ ॥
णिविमोचनम् । मारिवारणमश्रान्त-मयं तद्दोहदोदयः ॥ २४ ॥ पत्युः प्रमादादेतस्याः, सर्वोऽरिष्ट दोहदः । पाण्डौ भनेर लोकेषु तस्याः किं नाम दुर्लभम् १ ॥ २५ ॥
अथ ज्येष्ठायुते चन्द्रे, वारे मङ्गलनामनि । वृधिकाख्ये शुभे राशा - वृच्चस्थेषु प्रहेष्वपि ॥ २६ ॥ अजायत मुनस्तथा, मुहूर्ते तत्र कुत्रचित् । आक्रान्तचतुराशान्ता, जायन्ते यत्र चक्रिणः ॥ २७ ॥ ( युग्मम् ) परां तञ्जन्मनि प्रीति, स्थावराणि चराणि च । भूतान्यनुभवन्ति म, “ सर्वमत्यद्भुतं सताम् " ||२८|| भीष्मं च धृतराष्ट्रं च पाण्डुं च विदुरं तथा । दिपासून वर्धयामासुर्जनाः शुद्धान्तवासिनः ||२९|| अम्बालिका-चिका स्थानां, सत्यवत्याश्च सत्वरम् । गत्वा दास्यः प्रसन्नास्याः, पुत्रजन्म न्यवेदयन् ॥ ३० ॥ जातमात्रे सुते तस्मिन् बालार्कसमतेजसि । उच्चचार वियत्युच्चे - रशरीरा सरस्वती ॥ ३१ ॥ असौ सत्यवतां मुख्यः, सतामध्यः समग्रधीः । शौण्डीर्य स्थैर्य - गाम्भीर्य वसतिर्विनयी नयी ॥ ३२ ॥ धर्मत्रद्धरतिर्भूपः, सार्वभौमो भविष्यति । वार्द्धके व्रतमादाय, निर्वाणं च गमिष्यति ॥ ३३ ॥ ( युग्मम् ) तत्समाकर्णनात्र स्यु-भीमादीनां मुदः कथम् १ | अपरेषामपि तदा, हर्षं नाख्यातुमीश्महे ।। ३४ ।। स्वयमेव पुरे पौर-रुत्सवो निर्मितस्तदा । आदेशस्तु विशांपत्यु-रभवत् सिद्धसाधनम् ।। ३५ ।। निःशेषदिविषद्वर्ग - प्रमोद पिशुनस्तदा । समाकर्ण्यन्त सानन्दं, दुन्दुभिध्वनयो दिवि ॥ ३६ ॥ सुतस्य तस्य भीष्माद्यैः किंचिद्वीक्ष्याङ्गलक्षणम्। युधिष्टिर इति श्लाघ्य - मन्वर्थं नाम निर्ममे ॥ ३७॥ तयोधर्मैकनिष्ठायाः, पृथाया जात इत्यसौ । लेमे नाम्नी तपःसुनु- र्धर्मसूनुरिति क्षितौ ॥ ३८ ॥ तस्य पश्चादजातारि-रिति त्रैलो१ ' तानायाः प्रतिद्वय० ।
I
गान्धारी
कुन्त्योः दोहदः,
युधिष्ठिर
जन्म ॥
॥ २१ ॥