________________
श्रीपाण्डव- चरित्रम् । सर्गः२॥ ॥२०॥
जघर्मोर्मि-निरस्ततुहिनापदाम् । शिशिरोऽप्यकरोत तेषां, मधुवचन्दने स्पृहाम् ।। ५८९ ॥ दयितादशनौपम्य-मुभगंभावुकं तदा। आसीद्विशेषतस्तेपा, कुन्दमानन्दहेतवे ॥ ५९० ॥ सौधे कदाचन कदाचन काननेषु, वाप्यां कदाचन कदाचन केलिशैले । पश्चषुसायकसहाः सह वल्लभाभिः, सर्वर्तुचक्रमतिचक्रमुरेवमेते ।। ५९१ ॥
इति मलधारिणीदेवशमसरिरिचित सदाकारने पाण्डवपूर्वजवर्णनो नाम प्रथमः सर्गः ॥ १॥
वर्णनम्। गान्धारीगर्मः॥
अथ द्वितीयः सर्गः।
अथाऽन्येारतिस्फीता, पत्यो प्रीतिमुपेयुपी । बभार गर्भ गान्धारी, शमीवानिलसारथिम् ।। १ ।। उन्मीलितमहौद्धत्यो, जझेऽन्तर्मनसं मदः । बहिरापीनभावश्च, तस्या वक्षोजकुम्भयोः ।। २ ।। अवसादः शरीरस्य, तस्या गर्भभवोऽभवत् । जगदाक्रमणोत्साह-चेतसस्तु व्यजृम्भत ॥ ३॥ गर्मेणाभ्यधिकं तस्याः, कृतमुज्ज्वलमाननम् । अजायेतां तु वक्षोजौ, कामं श्याममुखौ तदा ॥ ४ ॥ ससत्त्वा धृतराष्ट्रस्य, सा बभूवातिवल्लभा । कृषिः कपीवलस्येव, संपन्नान्तःफलोदया।। ५ ।। तस्या गर्भानुभावेन, दोहदैर्जातमुद्धतः । “अन्तद्रव्यानुरूपा हि, पयस्यामोदसंपदः ॥६॥ उग्रेण विग्रहेणैव, विपदामुदयेन च । जनानां जायमानेन, तस्याः संपेदिरे मुदः ॥ ७॥ तस्याः संनीडसंपन्ना, निगडवानबन्धुराः । बबन्धुर्वन्धनागारे, हाकार
१ अग्निम् । २ विकसितं महत् औद्धत्यं यस्मिन् सः। ३ समीपे प्राप्ताः ।
॥२०॥