________________
लभन्ते स्म गाढालिङ्गनकौतुकम् ।। ५७२ || प्रेङ्खासुखप्रकर्षस्य, न तृप्यन्ति स्म तत्प्रियाः । समं प्रियतमैस्तादृक्-संगमो हि कुतोऽन्यथा ||५७३ || प्रेयसीभिः समं ताभिः काननेषु कदाचन । स्वैरं ते विहरन्ते स्म स्मरादेशवशंवदाः || ५७४ || चम्पकोसविधिना, मल्लीधम्मिल्लयन्धनैः । ते स्वयं रचयां चक्रुः, प्रेयसीनां प्रसाधनम् ।। ५७५ ।। मालाकारोपनीतेषु, पुष्पाकल्पेष्वनेकशः । तासां दूरमनास्थाभूत् हि ते पिक उत्तमद्धीनिष्पन्न- पुष्पाऽऽभरणशालिनः । ते भृशं मिरामासु - घोर्मूर्तिमतः श्रियम् ॥ ५७७ ॥ श्रान्ता वनविहारेण, जलकेलिचिकीर्षया । क्रीडावापीषु रम्यासु तेऽवतेरुः प्रियान्विताः ||५७८|| हतास्तोयेन कान्तैस्ताः, प्रमोदेन प्रपेदिरे । अहतास्तु विषादेन, “विपरीतो हि मन्मथः " || ५७९ || सार्धं प्रियाभिरभ्यस्त—–बिलासायुधशासनैः । चन्द्रिका चन्द्रशालासु, वासन्ती तैरसेव्यत ॥ ५८० ॥ मधोरतिक्रमे कामं, जलार्द्रा-चन्द्र-चन्दनैः । अलभ्यन्त तदभ्यर्ण सेवावसरवासराः || ५८१ ॥ सेकातिरेकसान्द्राणि, मध्येकदलिकाननम् । निकार्म कार्यमानानि, कामिभिस्तैः सिषेविरे || ५८२ ।। प्रावृषि प्रेयसीवर्ग-संसर्गप्रीतचेतसाम् । बभ्रुवुः केकिनां केका स्तेषां हृषैकहेतवः ॥ ५८३ ॥ उज्जृम्भितैर्भ्रमद्भुङ्ग-निकरैर्मकरन्दिभिः । प्रेयसीर्भूषयामासु–स्ते कदम्बकदम्बकैः || ५८४॥ मिलत्परिमलश्रीषु, मालतीषु प्रियासु च । भृत्यूनां च तेषां च, पर्याप्तं भोगसंपदा || ५८५ ॥ हित्वा मनोहरान हारान, दूरतस्ता मृगीदृशः । पर्यधुर्यथिता नाथैः, शारदेन्द्रीवरजः ॥ ५८६ ।। मृगनेत्राः प्रियाः प्राप्य, हैमिनीयमिनीच ताः । स्मरपारायणं साङ्ग-मध्यगीषत तेऽखिलम् ।। ५८७ ।। ते प्रियाणां तदा कण्ठे, गण्डयोः स्तनमण्डले । मसृणैर्घुस्र्णोदे-लिलिखुः पत्रत्रल्लरीः ॥ ५८८ ॥ प्रियावो
१ तृणगृहाणि । २ कदम्बपुष्पसमूहैः । ३ शारदकमलमालाः ४ कुङ्कुमचूर्णैः ।