________________
| जातप्रभातायां, नृपो धात्र्या व्यसृज्यत । यूनोः प्रच्छन्नसङ्गे स्यात् , तादृशा हि प्रमाणता ॥५४२॥ अङ्गुलीयकमाहात्म्यावृपः स्वं स्थानमाययौ । अधिपश्च गभस्तीना, पूर्वशैलेन्द्रचूलिकाम् ॥ ५४३॥
संप्राप्तसंगमा प्रावृद्, पयोदेनेत्र पाण्डुना । अन्तर्वत्नी विभाति स्म, कुन्ती गूढाकुरेव भूः ।।५४४ ॥ क्रमाद्धात्री तथाभनातां विनाय विचक्षणा । किमप्यपाटवव्याज, कृत्वा छन्नमधास्यत् ॥५४५॥ आविबभूव शौर्य तत्, तस्या गर्भप्रभाबतः। विडोजसोऽपि येनौजो, मन्यते स्म तृणाय सा ।।५४६॥ तदा तस्याः कृताश्चर्य-मौदार्य तदजृम्भत । येन सर्वस्वदा. नेपि, किं दत्तमिति खिद्यते ।।५४७। प्रत्याशं प्रसरद्दीप्ति-मण्डले मणिकुण्डले । शस्त्राणि च प्रियाण्यासं-स्तस्याः प्रस्मरौजसः ॥ ५४८ ॥ मार्तण्डमण्डलभ्रान्ति-जनक निजतेजसा । अथ सा नवमासान्ते, स्ते स्म मुदिने सुतम् ॥ ५४९ ॥ पुत्रजन्मेति | सानन्दा, प्रच्छन्ममिति शङ्किता । त्याज्योऽयमिति च म्लास्नुः, सा दधौ भावसंकरम् ॥५५०|| शौण्डीयौ-दार्य-साम्राज्य-बीज वीक्ष्याङ्गलक्षणम् । कुन्ती-धान्यावयेतां, तत्त्यागोपक्रमे तदा ॥५५१ ॥ असौ लोकविरुद्धेन, वर्मना जात इत्यमुम् । उज्झितुं रत्नमञ्जूषा, ताभ्यामानीयत क्षणात् ॥५५२॥ क्षित्वा तत्र स्वयं घाघ्या, मणिकुण्डलमण्डितः । रहा प्रवाहांचक्रे, सोऽन्तर्गङ्गं सबाष्पया ॥५५३|त्यक्त कुन्ती सुते तस्मि-नुवाह महतीं शुचम् । "ताशा पुत्ररत्नेन, वियुक्तः को न खिद्यते" १॥५५४॥
अथापृच्छि रहो जातु, धात्री राझ्या सुभद्रया । कथमन्यमिवाकारं, धने कुन्ती सुता मम ? ॥ ५५५ ।। कथं चान्तः सशल्येव, वहति म्लानमाननम् । अथ ते कथयामास, धात्री वृत्तान्तमादितः ॥५५६॥ राज्यप्याख्यत् क्षितीशाय, तस्याः
१ 'नातिप्रभा०' प्रतिद्वयः । २ रात्रिसदृशानाम् । ३ म्लानिं गा । ४ - तां' इदि पाठश्चेत्साधुः ।