________________
ततस्तामभ्यधाद्धात्री, वत्से ! मा स्मोत्सुका मव । दुष्प्रापः प्राप्यते प्रेयान् , कृशोदरि ! किमुत्सुकैः ॥ ५१० ।। उपाय चिन्तयिष्यामि, कचिदव्यभिचारिणम् । जटित्येव यदाकृष्ट, द्रष्टासि पुस्तः प्रियम् ।। ५११ ॥ इत्यमावास्यमानापि, यादवेन्द्रसुता यदा । भृशं लब्धात्मलामेन, संतापेनाभ्यभृयत ॥ ५१२ ॥ तदा धात्री ययौ दूरं नवपल्लवहेतवे । " त्वरन्ते 11 भृग्नमाप्ता हि, स्वजनन्यसनोदये " ॥ ५१३ ॥
अथान्तश्चिन्तयामास, गादवेश्वरनन्दिनी । दिपणा निरन्नागोऽयं समयो मम मृत्यवे ॥५१४॥ विचिन्त्येति दृढाबद्धनीविः संयमितांशुका । अशोकपादपस्याधः, सभद्धोद्धन्धनाय सा ।। ५१५ ॥ इह संनिहिताः सर्वाः, भृण्वन्तु वनदेवताः। जन्मान्तरेऽपि भूपाला, पाण्डुरेवास्तु मे पतिः ॥५१६।। अभिधायेति शाखायाः, कण्ठे पाश न्यधात् पृथा। "अयं प्रायः प्रतीकारः, स्त्रीणां हि व्यसनोदये" ॥५१७॥ (युग्मम्)पाशालम्बितमात्मानं, सा स्म यावद्विमुञ्चति । असिधेनुकरस्ताव-दात्रीपतिरधावत ।।५१८॥ एतेनालमलं बाले, साहसेन तवाधुना इति जल्पन्नृपः कण्ठा-तस्याः पाशमपाच्छिदन ॥५१९॥ अधः पतन्तीमुद्गच्छ-मोमुत्सङ्गशायिनीम् । कृत्वा पृीपतिः क्षौम-पल्लवैस्तामवीजयन् ॥५२०॥ संज्ञामासेदुषी साऽथ, चिन्तयामास शङ्किता। पुमानहह ! को नाम, मामेवं वीजयत्ययम् ॥५२॥ पाण्डोरन्यस्य हा क्रोडे, शेते कुन्त्यपि विग्विधिम् । “जीवितादपि सत्यो हि, धनायन्ति सतीत्रतम् " ॥५२२।। एषोऽपि कोरकाख्यात-रूपसारूप्यमश्नुते । नृणामन्योन्यमाकार-संवादो वा पदे पदे ॥ ५२३ ।। कथमस्य वपुःस्पों, मां सिञ्चत्यमृतद्वैः । ममानुकम्पया तर्तिक, स एवायमुयागमत् है ।।५२४॥ कुतोऽथ वा ममैतानि, मागधेयानि जाग्रति ।। इति चिन्तापरा याव-दृशा स्पृशति तदपुः ।।५२५|| कारुण्यादिव शीतांशु