________________
"
श्रीपाण्डव परित्रम् । सर्गः
पाण्डविद्याधरयो
HI मंत्री,
पान्डो
॥१७॥
कुन्ती
ममी
क्लेश, दाता सपाद कामितम् । " देवतोपहितानांह, वस्तूनां महिमाऽद्धतः ॥ ४९३ ।। अदृश्यीकरण वश्यी-करणं व्रणरो- हणम् । विषनिग्रहणं चास्याः, प्रथमः कुसुमोद्गमः ।। ४९४ ॥ शनकृत्वच निणीत-प्रभावेयमिति ब्रुवन् । पाण्डोस्तामर्षयामास, बलाद्विद्याधरेश्वरः ॥ ४९५ ॥ इयं संक्रामतु प्रीति-राययोः पुत्रसंततौ । स किं स्नेहो न यः पुमा, संतानमनुधावति ? ॥४९६।। इत्याख्याय विशालाक्षे, स्वपुरी समुपेयुपि । मुद्रिका तां धरित्रीशः, पर्यवत्त निजाङ्गुलौ ॥ ४९७ ॥ दृष्टप्रतिकृति कुन्ती, पाण्डश्चित्ते चकार च । तदात्मानमपश्यच, नत्र यत्रास्ति सा बने ॥ ४९८॥
तत्र तां निभृतं धात्र्या, समं विश्रम्भभापिणीम् । अदृश्य एवं शुश्राव, प्रजानामधिभूरिति ॥ ४९९ ॥ दुरन्तयाऽनया मात-स्वयाऽवस्थया मम। कथंचिदिवसो यातः, कथं यास्यति यामिनी ?॥ ५० ॥ जलायाऽनया शुष्क, शुष्कमेभिश्च पङ्कजैः । मम निर्वर्ण्यतामेया, वपुःसंतापवर्णिका ।। ५.१ ॥ मुक्ता मुक्ताकलापस्य, मुक्ताः संतापशान्तये । ध्यानास्फोटं स्फुटन्ति स्म, पश्य मातर्ममोरसि ।।५०२॥ मृणाल वलयरेभि-रभिश्चन्दनचर्चनैः । अलं मातरलं मातः!, किमु स्वं क्लेशयिध्यसि ॥ ५.३ ॥ कोरकेण समाख्यातः, स शीतयुतिशीतलः। मातर्मयि कथंकार-मग्नेरपि विशिष्यते ? ॥ ५०४॥ निमन्तुमपि मां बाणै-धिते कुसुमायुधः । तिरस्कृतोऽपि रूपेण, न त हन्ति मनागपि ।। ५०५ ॥ स्मरस्तस्मिभपि शर-निशितैः पहरेद्यदि । सुभगः सुस्थितमन्यः, स मां किं न स्मरेत्ततः ॥५०६॥ गण्डोपर्यपरो ह्येष, विकटः पिटकोदयः । उभिद्रचन्द्रिकावीचि-रिन्दुर्यदयमुद्गतः ॥ ५.७ ॥ विपर्येति विपर्यस्तै-र्भाग्यै वनमप्यदः । मम येनोल्मुकायन्ते, पन्द्रस्यापि मरीचयः ॥ ५०८ ॥ हेतोः कुतोऽपि तातो मां, न तस्मै दातुमीहते । हा! हा! मातर्निराशाऽस्मि, शरण मृत्युरेख मे ॥ ५०९ ॥
गमनम्, कुन्स्यवस्थादर्शनं
॥१७॥