________________
चिलुम्पन्ति स्म संतापं, न स्मरज्वरसंभवम् ॥ ४७७ ।। अविन्दनरविन्दाना-मपि तल्पे रति क्वचित् । ययावुपवने पाण्डः, पुष्पाडम्बरबन्धुरे ॥ ४७८ ॥ कुन्तीविरहदाहार्ति-प्रतीकारचिकीर्षया । तत्र प्रतिदु विश्राम्यन् , सोऽद्राक्षीत् खदिरद्रुमम् ॥ ४७९ ।। तस्य स्तम्बे निरालम्ब, कोलैः कीलितमायसैः । एकं नरं निरुच्छ्वास, दुखित स समैक्षत ।। ४८० ।। स्मरसोदरमाकार, तस्यालोक्य क्षितीश्वरः । आचकर्ष बलोत्कर्षा-ल्लीलया लोहकीलकान् ।। ४८१ ॥ छिन्नद्रुपातमपतत् , सोऽतिमूर्छाविसंस्थुलः । भूपतिर्लम्भाणस, चेतन मनैशर ४८२॥ स पुमान्मुद्रिकान्यस्त-मणिस्नपनवारिभिः । सेचं सेच प्रणश्रेणी, प्रगुणीकृतवान् स्वयम् ॥ ४८३ ।। अधोचे पृथिवीनाथः, पृथुना प्रश्रयेण तम् । वहि कोऽसि महाभाग !, कथं चेयं दशा तर? ।। ४८४ ॥ स जगाद जगवन्धो, वैतात्यगिरिमण्डनम् । अस्त्यनेकॉस्तिमत्पौरं, पुरं हेमपुराभिधम् ॥४८५ ।। तस्य स्वामी विशालाक्ष-नामा विद्याधरोऽस्म्यहम् । भ्रमन स्वैरविहारेण, महीमिह समागमम् ॥४८६॥ वनस्यास्य श्रियं पश्य-भुपेत्य रिपुभिश्छलात् । बद्धोऽस्मि करिणीव्यग्रः, करीव करिबन्धकैः ॥ ४८७ ॥ यच्छन् प्राणानतुच्छेवं, किं तन्मे यस्य नेशिषे । तद्यं जनः किंते, प्रियं कर्तुं प्रवर्तताम् ॥४८८|| अबदन्नृपतितः!, किं ममातः परं प्रियम् ।। यच्च विद्याघरेन्द्रत्वं, कुशली पालयिष्यसि ।। ४८९ ॥ पुनरूचे विशालाक्षः, सशल्य इव लक्ष्यसे । भद्र! त्वमपि तदहि, पुरो मम मनीपितम् ।। ४९० अथाकथयदुर्वीशः, सर्वमाकूतमात्मनः । आवेदिता हि सुहृदा, फलन्त्येव मनोरथाः ॥४९१॥ ततः प्राह विशालाक्षो, प्रीत्या नृत्यन्मना नृपम् । मम वंशक्रमायाता, मुद्रिका गृह्यतामियम् ॥ ४९२ ।। असौ तब विना
१ अनेके अस्तिमन्तः-धनिकाः पोराः यस्मिन तत् ।