________________
श्री पाण्डव
चरित्रम् ||
सर्गः १ ॥ ॥ १६ ॥
31
पटवृत्तान्तं सर्व वेति स्म मन्मुखात् ॥ ४६२ ॥ कुन्तीं वरीतुं तेनायं प्रहितो निजपूरुषः । देवः संप्रति कर्तव्यमेवस्या - दिशतु स्वयम् || ४६३ ॥ संभाव्य भूमिपालस्त- मौदासीन्यस्पृशा दशा । प्रातरावेदयिष्याम, इत्युक्त्वा व्यसृजत्तदा ||४६४॥ उत्थितायां सभायां च कोरकः स्वं गृहं ययौ । प्रीता पाण्डुगुणैः कुन्ती, कन्यान्तःपुरमायौ ॥ ४६५ ॥ पाण्डोरवनिमार्तण्ड - स्यावदातान् गुणान् रहः । धात्र्या निवेदयांचक्रे, कुन्ती साकृतमानसा || ४६६ ।। पराक्रमेण रूपेण, विनयेन नयेन च । असमः सैप मातस्ते, जामाता प्रतिभाति मे ।। ४६७ ।। भाग्यान्याविर्भविष्यन्ति न जाने कीदृशानि मे १ । “विघटन्ते हि कार्याणि प्रतिकूले विघातरि " ॥ ४६८ ॥ अथादिष्टो विशां पत्या, प्रातराकार्य कोरकः । पाण्डवे पाण्डुरोगित्वा-अ दातास्मि निजां सुताम् ।। ४६९ ॥ कोरकेण नरेन्द्रोक्तं, पुरुषाय न्यवेद्यत । तेनापि भीष्म-पाण्डुभ्यां, हस्तिनापुरमीयुषण || ४७० ॥ एकान्ते तं नरं नीत्वा पाण्डुः पप्रच्छ सादरम् । ब्रूहि राजसुता भद्र !, किं नु मय्यनुरज्यते १ || ४७१ ॥ सोऽशंसदेव ! तां वेजि, रागिणीमिङ्गितैस्त्वयि । यदा त्वां वर्णयामास, कोरकः क्षितिपाग्रतः || ४७२ | भृशं रोमाञ्चितौ तस्याः, कपोलफलकौ तदा । निमेषविमुखे जाते, नेत्रे स्फारितपक्ष्मणी || ४७३ || सा श्रोत्रपुटमाधत, निषिद्धविषयान्तरम् | सवेपथुं वपुष्टि-मुवाह च मुहुर्मुहुः ।। ४७४ ।।
मन्मथेनाथ पृथ्वीशः, पञ्चभिर्युगपच्छरैः । प्रहतः प्राप तं तापं, येन नाप रतिं कचित् ॥ ४७५ ॥ क्षणं तस्थौ नृपः सौधे, वारागृहे क्षणम् । क्षणं पल्लवपल्यङ्के, कौसुमस्रस्तरे क्षणम् ॥ ४७६ ॥ जलार्द्रा चन्दनं चन्द्रः, कर्पूराण्यपि भूपतेः । १ पुष्पशय्यायाम् । २ आर्द्रव्यजनम् .
कुन्ती
पाण्डोः
परस्पररागः ॥
॥ १६ ॥