________________
काञ्चनवर्णाऽस्याः, कनिष्ठाऽस्ति सहोदरा । नाम्ना माद्रीति रूपेण, यस्याः श्रीरेव सोदरा ॥ ४४६ ॥ विख्यातो दमघोपाख्य-स्तां वृणीते स्म चेदिपः । ज्यायस्यां किं त्वमूहाया-मियं नोद्वाहमर्हति ॥४४७॥ तदार्य ! सर्वकार्येषु, तिष्ठते त्वयि निर्णयः । एते सुखिन्यौ कन्ये स्ता-माररामपद्विकलापम् । ४४ हम तापितो भीष्म-स्तत्सर्व प्रत्यपद्यत । "स्वयं वाञ्छितमागच्छत् , को निराकुरुते कृती?" ॥४४९।। अथोत्पाद्य नवं राग, सा मृगाक्षी मनोमुत्रा । आलिख्यत पटात्तस्मात् , पाण्डोश्चित्तपटे तदा ॥ ४५० ॥ स मध्येमानसं कुन्ती-मश्रान्तं धारयमपि । बहिरालोकयामास, स्थाने स्थाने पुरःस्थिताम् ॥४५१ ॥ कदा कुन्तीमुखाम्भोजे, मन्नेत्रभ्रमरद्वयी। पाता लावण्यकिजल्क-मित्यासीदुत्सुको नृपः ।। ४५२ ।। पृष्ट्वा । सत्यवती शौर्य-पुरे कोरकसंयुतम् । कार्यस्थैर्याय भीष्मः स्वं, प्रेषयामास पूरुषम् ।। ४५३ ॥
अथ शौर्यपुरे गत्वा, समेतस्तेन कोरकः। कुन्नीविभूषितोत्सङ्ग-मपश्यद्यादवेश्वरम् ।। ४५४ ॥ व्यजिज्ञपच्च राजेन्द्र तवादेशाद्गतोऽस्म्यहम् । अवक्रमात सदामत्त-हास्तिके हस्तिनापुरे ॥४५५ || उत्फुल्लषुण्डरीकाक्ष-स्तत्र पाण्डुमिनीश्वरः । अदृश्यत दशामेकः, पार्वणश्चन्द्रिकोदयः ॥ ४५६ ॥ नेत्रयोस्तत्र पुंरत्ने, गते विषयता मया । अद्यापि स्नगर्भेति, भूरियं पर्यभाष्यत ॥ ४५७ ॥ तस्य पीनोग्रतावंसौ, लीलाशैलौ नृपधियः। विशालं वीरलक्ष्म्याश्च, तल्यकल्पमुरःस्थलम् ।। ४५८ ॥ प्रीणितार्थिजनस्तस्य, पाणिः कल्पद्रुपल्लवः । विश्वत्राणकतो होः, कः पुरीपरिषः पुग?॥४५९।। चक्रवर्त्यतिवर्तीनि, तदने। लक्षणान्यपि । शक्रोऽपि स्पृहयत्येव, यस्मै सौभाग्य-विक्रमैः॥ ४६॥ पात्रं कलाकलापस्य, विश्वस्य नयनोत्सवः । असो | योग्यो वरः कुन्त्या, रोहिण्या इव चन्द्रमाः ॥ ४६१ ॥ पितृतुल्यः पितृव्योऽस्ति, पाण्डोर्भीष्म इति श्रुतः । म चित्र-!