________________
319
पाण्डवाना नागसरस आगमनम्।
श्रीपाण्डवप्रभाव्याजात् , प्रादुरासीच सर्वतः ॥ ४९७ ॥ तदानीं तद्वियोयाति-म्लानमूर्ती विलोक्य ते । ययौ कापि तुषारांशु-पन्देष्टुचरित्रम् ॥ मिव पाण्डवान् ॥ ४९८ ॥ प्रातर्वातोच्छलद्वीचि-च्छलतो मैन्तुमात्मनः। प्रमाष्टुमिव पादेषु, लगति म सरस्तयोः ॥४९९॥ सर्गः८॥
मुनीन्द्ररपि दुःसाध्या, ध्यानानेश्वलता तयोः विष्णुभिधारोह-बदा पूर्वाद्रिचूलिकाम् ॥ ५.०॥
अथ व्योनि क्रमाजाते, याममात्रे त्रयीतनौ । तथैव सावधानेषु, श्वापदेवखिलेष्वपि ॥ ५०१ ॥ स्वच्छाम्भसः सरोग॥१६॥
र्भा-ज्योतिः समुदजृम्भत । अनणुः किङ्किणीकाणः, शुश्रुवे च श्रुतिग्रियः ॥५०२॥ ततः स्वर्णमयस्तम्भ, नानारलाङ्कवेदिकम् । विमानं निरगादेकं, नाकस्येव निदर्शनम् ॥ ५०३ ॥ निर्मिमेषाम्बुजव्याजात्, कृत्वा नेत्राणि कोटिशः । नूनं सरोऽप्यनूनधि, तदालोकत कौतुकात् ॥ ५०४॥ तीरे ततः समुत्तीर्य, निस्तीर्णविपदर्णवाः। पादपङ्केरुहं कुन्त्याः , प्रणमन्ति स्म पाण्डवाः ।।५०५॥ दिव्यमूर्तिधरः कश्चि-वरस्तैः सममामतः । स्फीतप्रीतिः पुरोभूय, कुन्तीं प्राञ्जलिरम्यवान् ॥ ५०६ ॥ दिल्या ते फलितो धर्मः, कुन्ति ! पारय पारय । एते लुठन्ति विनयात् , तनयास्तव पादयोः ॥ ५०७ || कायोत्सर्ग | विसृज्याथ, प्रमोदभरमेदुरा । पाणिना मृदु पस्पर्श, कुन्ती प्रत्यङ्गमङ्गजान् ॥ ५०८ ।। द्रौपदी च करे धृत्वा, सा समाधिममोचयत् । पायं पायं पयः सर्वेः, प्रतस्थे श्वापदैरपि ॥५०९।। कुन्ती वहन्ती विजिता-म्भोजकाननमाननम् ! गत्वाऽथ केसरस्याधो, न्यसीद सपरिच्छदा ॥ ५१० ॥ ततः पप्रच्छ तं देव-मात्मजानां कथां पृथा । सोऽपि सानन्दमुन्मीलचमत्कारमचीकथत् ॥ ५११॥
१ अपराधम् । २ सूर्ये । ३ स्वर्गस्य ।