________________
36
गामित्वा-बोन्ममज चिरादपि ॥४४९ ।। उभावपि भुजे धृत्वा, जानीवाशु समुद्धृतौ । इति अल्पन् विवेशाशु, नकुलः प्रणयाकुलः ॥ ४५० प्रवृत्तिरासीत्तस्यापि, प्रत्यावृत्तिस्तु नाभवत् । व्यवसायोऽन्यथा पुंसां, विधातुः पुनरन्यथा ॥ ४५१ ॥ चिरयन्ति कथं मना, बन्धवोऽमी ' इति बुवन् । सहसा सहदेवोऽपि, वेगादेत्य जलेऽपतत् ।। ४५२ ॥ सत्यं सोऽपि जत्राद्गत्वा, बन्धूनां मिलितस्तदा । बेनोन्मजनवार्ताऽऽसी-न तस्यापि कथंचन ॥ ४५३॥
हाहा ! किमेतदारब्धं, विधिनेति विचिन्तयन् । नरेन्द्रोऽथ समं कुन्त्या, कृष्णान्तिकमुपागमत् ॥ ४५४ ॥ अजल्पनृपतिः कुन्ती, किमेतन्मातरुत्थितम् । अकस्मादेव येनामी, निर्ममज्जुर्ममानुजाः ।। ४५५ ।। शक्तास्तरीतुमेते हि, बाहुभ्यामपि सागरम् । क्रूराणां संभवो जातु, नास्मिन्नम्भसि यादसाम् ॥ ४५६ ॥ मन्ये मन्युमता योदूं, रुद्धाः केनापि वैरिणा । तं निगृह्य प्रसह्याशु, गत्वाऽहं मोचयाम्पमृन् ॥ ४५७ ॥ किं तु त्वां त्वद्वधु चैतां, नो शून्ये मोक्तुमुत्महे । तत्किंकर्तव्यतामूहः, संकटे पतितोऽस्म्यहम् ।। ४५८ ॥ अथाऽऽह जननी वत्स !, गच्छ बन्धून् विमोचय । आवयोः संनिधौ पञ्च, तिष्ठन्ति परमेष्ठिनः ॥ ४५९ ॥ सिंहा इव श्रयन्तेऽमी, यन्मनःकंदरोदरम् । विपछिपवटास्तेषां, विघटन्ते दिशो दिशि ॥ ४६॥ तवापि हृदयान्मा स्म, क्षणमप्यपयान्वमी । उदर्कः कुरुवंशार्क-श्चिरायोज्जृम्भतां शुमः ॥ ४६१ ।। रवेरस्तमनादर्वाक्, पुनः संनिधिमावयोः । सबन्धुरेत्य विजयी, सनाथीकर्तुमर्हसि ।। ४६२ ।। नमो नभोमणिः स्वैर, यावदुद्द्योतयत्ययम् । प्राणेभ्यः प्रभविष्याव-स्तावदेव त्वया विना ॥ ४६३ ।। दक्षः शिक्षामिमां मातुः, स ग्रहो बहमन्यत । नैसर्गिकी हि महता, मुदिौकतानता ॥ ४६४ ॥