________________
विद्याः स्वल्पे न कार्येऽस्मिन् , व्यापारयितुर्महसि ॥ ४१८ ! पश्चि नियंढसाहाय्या, रिडम्या तु पुरापि नः । इदानीमपि | तामेव, स्मर्तुमिच्छति मे मनः ॥ ४१९ ।। इत्युदीर्य स्नुषां सद्यः, सस्मार च युधिष्ठिरः । भीमाभ्यर्णस्थमात्मानं, सकुटुम्नं ददर्श च ॥ ४२० ॥ हिडम्बां सह बालेन, सोऽपश्यत् प्रणतां पुरः । अवादीच्च दृशा सिञ्चन् , सुधावीचिवयस्यया ॥४२१॥ कचित कुशलिनी वत्से !, गुर्वादेशैकतत्परे । । अयं च कोऽयमनयो, लघुीम इवापरः ॥ ४२२ ॥ अथ सा कथयामास, देव ! स्मरसि यत् पुरा। अन्तर्बत्नी विसृष्टाऽह-मेकचक्रावनाचया ॥४२३॥ गताया मे पितुर्गेहे, तनयोऽयमजायत । विद्याभिः पात्रलामेन, मुदितं यस्य जन्मनि ॥ ४२४ ।। भुजस्थाम्ना निराम्नायान् , पितुः शत्रून् करिष्यति । असाविति ममाख्यायि, मुहुमौतिकैस्तदा ॥४२५।। अयं मे ज्ञातिचक्रेण, चक्रे नाम्ना घटोत्कचः । कलाश्चाध्यापितः काश्चित् , काश्विदध्येष्यतेऽधुना ॥४२६|| अथैते तनयस्नेह-लहरीहतचेतसः। आश्लिष्यन् रभसाद्वालं, तं सर्वे पाण्डुसूनवः॥ ४२७।। मक्तिरोमाञ्चिता कामं, प्रणाम कृतपूर्विणी । सा कून्ती-याज्ञसेनीभ्यां, सस्नेहं समभाष्यत ॥ ४२८॥ अथोज्जृम्भअवाम्भोज, हृष्टो दृष्ट्वा सरः पुरः । | स्नुषां स्वस्थानयानाथे-मनुमेने महीपतिः ।। ४२९ ।।
आश्चर्यलहरीहेतोः, सेतोपरि तस्थिवान् । बन्धूनां दर्शयामास, मारुतिः सरताश्रियम् ।। ४३०॥ दिवि दिव्याजसौरभ्य-लुम्यद्रावलिच्छलात् । छत्रं तडागराजस्य, राजते मेघडम्परम् ॥४३१॥ लोलेरेतानि कल्लोलैः, शतपत्राणि पश्यत । कष्णायक्वजितानीव, स्वमन्तर्दघते पुरः।। ४३२॥ इमां भीमगिरं श्रुत्वा, दक्षिणेऽक्षिण स्फुरत्यथ । प्रपेदे द्रौपदी प्रीति
१ सन्ततिरहिताम् । २ पालेः।