________________
35
भ्रातृसमीपे आगमनम्। मीमस्य कमलानयनाय
भीपाण्डव मुत्सझे, पपात पवनाहृतम् ॥ ४०२ ॥ एकं विदधती ततिः, पाणिपकेरुहग्रहात् । विलोकते स्म पाशाली, प्रतिपत्रं पुनः पुनः चरित्रम् UNI
॥४०३ ।। प्रियाचक्त्रं च तगापि, वीक्ष्य साक्षादुमे अपि । पाण्डवेयास्तयोराद्य, निश्चिक्युवसति श्रियः॥४०४॥योरपि समः ८॥
तयोरस्ति, यदप्यनपरागता । तथाप्यधिकसौरभ्यं, मेनिरे ते प्रियाननम् ॥ ४०५॥ तेनाकृष्टमनाः कृष्णा, दशा भीमम-
याचत । उपानय समानीय, नलिनानीरशानि मे ॥ ४०६ ॥ सुमेधास्तदबोधिष्ट, प्रियाऽभीष्टं वृकोदरः। मनोगतं विदन्त्येव ॥१५॥
नित्यं हृदयवासिनः ॥४०७ ॥ ज्येष्ठवन्धुमनुज्ञाप्य, प्रस्थितस्याथ मारुतेः। दिदेशानीतराजीव-गन्धो गन्धवहः पथम् । ॥४०८ ॥ लचयामास सोऽध्वानं, सिन्धुभूधरदुस्तरम् । न पुनः कापि तत् प्राप, सरः सरसिजास्पदम् ॥ ४०९॥ ___इतस्तपःसुतादीना-मदीनमनसामपि । भाव्यर्थपिशुनराशु, दुनिमित्तैविजृम्भितम् ॥४१०|| ततः समादिनद्वन्धू-नाहतो धर्मनन्दनः । सत्वरं गम्यते तत्र, यत्रास्ति पवनात्मजः ।। ४११॥ तस्मिन् संनिहितेऽस्माकं, विपदः स्युन दुस्तराः। महानद्योऽपि सुप्राप-पाराः सत्युडुपे नृणाम् ॥ ४१२ ।। तस्याप्यत्याहितं न स्यात्, स्थितेष्वस्मासु संनिधौ । केन वा यूथमध्यस्थः, कलभः परिभ्यते ।। ४१३ ॥ इत्यादेशाचरेशस्य, ते सर्वेऽपि प्रतस्थिरे । तेषामुपादिशन्मार्ग, मना भीमेन भूरुहः ॥ ४१४ ॥ गिरिभिर्विषमः पन्था-स्तैर्ललऽ कथंचन । एकस्यास्तु महानद्या-स्तीरे खिन्नोऽयदन्नृपः ॥ ४१५॥ भीमः स] नास्ति यस्यासौ, महानद्यपि गोष्पदम् । एतामुत्तार्य भीमेन, कोऽस्मान् संगमयिष्यति?॥४१६|| अथाऽऽह पार्थो मे देव !, विधाः सन्ति वशंवदाः तासामन्यतमाऽप्येतत् , करोत्वीप्सितमादिश ॥४१७॥ ततोऽवादीवजातारि-महासाहायिकोचिताः।
१ रागसहितत्वम् । २ वायुः । ३ विनः ।
॥१५७